पृष्ठम्:शङ्करविजयः.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
166
शङ्करविजये

जीमूतधर्मिगृहदत्तमुपाददाना-
स्ते चातकद्विजवरास्ततृपुर्नवाम्भः ।
एषा न तृप्तिरितरस्य जनस्य जातु
सच्छ्रोत्रियस्य कुनृपात्तधनस्य यद्व​त् ॥ ६ ॥

आकर्णयंस्स्तनितमूर्ध्वमुखो घनानां
केकी ननर्त कुशली शिखिनीसमेतः ।
देव्याश्शिवः परिसरे प्रसृतोरुबाहु-
स्सङ्गीयमान इव नृत्यति मोदमानः ॥ ७ ॥

मेघोपरोघ​वशतो रविमाप दीप्ती
रात्रौ तथा हिमकरं नववारिसिक्ता ।
तावत्प्रकाशपदवीमुपयातवन्तौ
दृष्ट्वा शुचेव पृथिवी विससर्ज बाष्पम् ॥ ८ ॥

लोको विषण्णवदनो विरहातुरो यो
दृष्टेर्निपातमपि न क्षमते क्षपायाम् ।
व्याकोशकन्दलतया गगनेऽभ्रयोगा-
द्दिक्षु प्रणार्तितमयूरतया विशेषात् ॥ ९ ॥

भञ्जंस्तरुं वधिरयञ्जनमुञ्चशब्दा-
त्कुर्वंस्तनून्विदलयन् शिशिरोऽतिमात्रम् ।
वायुर्ववौ द्रुतगतिर्न शशाक कञ्चि-
च्छत्रं विधार​यितुमुद्ध​तवायुवेगात् ॥ १० ॥

धन्यो जनो गृहगतो न चचाल भोगी
तस्माद्दशा दहनमुज्वलमीक्षमाणः ।
तल्पेऽशयिष्ट वनितासहितस्सुखेन
किं नाम दुस्सहमनिष्टदभिष्टभाजाम् ॥ ११ ॥