तत इदं रुधिरारुणमिष्यते1
गगनमण्डलमञ्जनसंनिभम् ।
इति वदन्ति जनाः खलु सन्ध्ययो-
2ररुणतात्र मुषास्ति न सा तयोः ॥ १०१ ॥
विरहमाप रथाङ्गसमाह्वय-
स्तत इदं तमसा जगदावृतम् ।
तरुमहीधरकाननभेदनं
न च शशाक विबोद्धुमयं जनः ॥ १०२ ॥
देशान्तरं नृप इवाधिगते दिनेशे
क्रान्तं तमःकुपतिना भुवनाख्यराज्यम् ।
दृष्ट्वोदगादिव रुषारुणबिम्बशाली
चन्द्रस्तदीयसुतवन्निजराज्यमायन् ॥ १०३ ॥
अपससार तमो नृपचोरवत्
शशिनृपो विरराज महाप्रभुः ।
अपि बभौ सुतरां ककुभामुखं
नृपवधूमुखवन्नृप आगते ॥ १०४ ॥
आनन्दयन्नमृत3 रश्मिरपारतेजा
राजा रराज भुवनश्रमनुत् सुशीतः ।
स्वस्थोऽधिरूढनिजराज्यपदं सतार-
स्संभावयन्कुमुदबन्धुवनं विनाथम् ॥ १०५ ॥
कश्चिद्युवा युवतिमाह विलोक्य चन्द्रं
दिङ्मण्डलीमुखविकासनसंप्रवृत्तम् ।
वामे निघाय करपल्लवमेतदीय-
स्कन्धे निजं तदुपगूहनहृष्टरोमा ॥ १०६ ॥
1अ. [ईक्ष्यते] । 2अ. अरुणतेति ।
2का. गोभि।