सामग्री पर जाएँ

पृष्ठम्:शङ्करविजयः.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
158
शङ्करविजये

अतिशयेन मधोरिव सेवना-
दवशगः कुरुते नमनादि सः ।
करणजातमभूत्सलयं क्षणं
क्षणविबुद्धमयं महिमा मधोः ॥ ९५ ॥

अशिशिराम्बुमिराननसंस्थितैः
कुचसरोरुहकुङ्म​मलवासिभिः1
अरुणमिश्रितनेत्रस​रोरुहै-
र्वपुरशोभत तद्धरिणीदृशाम् ॥ ९६ ॥

अथ रविश्वरमाद्रिमवातरत्
द्विजगणोऽध्ययनात्समुपारमत् ।
अधिनगाथ्यमवाक्यमनुस्मरं-
स्तदिह मानमुदीरितमव्ययम् ॥ ९७ ॥

मुमुदिरे कुमुदानि विपक्षगो
रविरसावपतज्जलधाविति ।
इति निशम्य वचस्सरसीरुहं
समुकुचद्विरहेण रवेरिव ॥ ९८ ॥

नदनदीसरसीगतवारिभी
र​विमुदीक्ष्य कराम्बुरुहैर्ददौ ।
सवितृविम्बनिविष्ट​मना मनाक्
अनघमर्घ्य​मनल्पफलाय सः ॥ ९९ ॥

मनुविसृष्टजलं परमास्त्रकं
भगवतो रथतो बहिरास्थितम् ।
अभिजघान बलं बलिरक्षसां
3गणमदो निरगाद्रुधिरं ततः ॥ १०० ॥


1अ. पातिभिः । 2अ. अधिगतार्थं ।

3अ. गणमथो ।