श्रीमज्जटायुवचनादधिगम्य सीतां
वृत्तान्ततो रवितनूजसखित्वमाप ।
हत्वैन्द्रमुद्धतबलं पवनस्य सूनुं
संप्राहिणोद्दशमुखस्य पुराय देवः ॥ ७३ ॥
संपुप्लुवे जलनिधिं स जगाम लङ्कां
सीतामलोकत ददावथ चाङ्गुलीयम् ।
नत्वा बभञ्ज वनमक्षकमाजिहिंस
लङ्कां ददाह पुनरादित मूर्धरत्नम् ॥ ७४ ॥
आदाय मूर्घमणिमम्बुनिधिं स तीर्त्वा
रामाय वृत्तमखिलं कथयाम्बभूव ।
रामो ययौ कपिभिरुद्धतवायुवेगै-
स्तीर्त्वाम्बुधिं विहितसेतुपथेन लङ्काम् ॥ ७५ ॥
हत्वा दशाननमथो सबलं सवित्रं
सीतामवाप्य दनुजं विदधेऽधिराजम् ।
आदाय शुद्धचरितां जनकात्मजां तां
आरोप्य पुष्पकमनेन ययावयोध्याम् ॥ ७६ ॥
बह्वीस्समा वसुमतीमनुशिष्य सम्यक्
भुक्त्वा च भोगमखिलं 1भुवि देववत्सः |
आरोप्य 2राजधुरमात्मगतां तनूजे
स्वीयैस्समं निजपदं प्रतिपेदिवांस्त्वम् ॥ ७७ ॥
भूत्वा दाशरथिर्गतो मुनिवनं भङ्क्त्वा धनुर्जानकीं
3मेजे प्राप्तपदच्युतिर्वनगतरसख्यञ्च भानोस्सुते ।
हत्वा वालिनमम्बुधिं कपिगणैर्बध्वा जघान द्विषं
जानक्या सहितो भवान्पुनरगाद्रम्यामयोध्यां किल ॥ ७८ ॥
1अ. दिवि । 2अ. राज्य ।
3अ. लेभे ।