पृष्ठम्:शङ्करविजयः.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
136
शङ्कर​विजये

प्रह्लाददैत्यतनयेन हरेर्विभुत्वे
प्रोक्ते तदीयवचनं 1मतमेव कुर्वन् ।
स्तम्भं विदार्य​ सहसोत्थितवान्नखाग्रै-
र्व​क्षोऽसुरस्य भगवान् बिभिदे विशालम् ॥ ६७ ॥

भूत्वा वटुः किल भवन् बलियज्ञशालां
गत्वा पदत्रयमयाचत​ वासहेतोः ।
पश्चात्क्रमेण​ ववृधे दिप्रभे च पादै-
र्लोकांस्त्रिभिर्बलिमथो भगवान्बव​न्ध ॥ ६८ ॥

तात​स्य मारणरुषा जमदग्निपुत्रो
भूत्वावधीर्नरहरे कृतवीर्यसूनुम् ।
2यश्चाविभः करसहस्रमभूत्पुरस्तात्
द्रव्यं ग्रहीतुमनसां किल तस्कराणाम् ॥ ६९ ॥

राजन्यकं समभिषिक्तमिह​ त्रिसप्त-
दारान्प्रभो पृथुबलं 3बहु बाहुवीर्यः ।
श्रीजामदग्न्यवपुरुत्परशुर्निहृत्य
4श्रीकाश्यपाय पृथिवीमददः 5किलैषाम् ॥ ७० ॥

पौलस्त्यपीडित 6सुरार्थनया पृथिव्यां
पुत्रो भवान् दशरथस्य बभूव साक्षात् ।
प्राप्ताभिषेकविहतेर्व​नमीयुषस्ते
सीतां जहार इरिणच्छलतो दशास्यः ॥ ७१ ॥

कान्तारपर्वतनदीतटदुर्गदेशान्
गत्वा व्यचेष्ट भगवान् दयितां दयालुः ।
गच्छन् क्वचित्पतगराजमपश्यदार्तं
संलृनपक्षतिमचेष्टममन्ददेहम् ॥ ७२ ॥


1अ. ऋतमेव, क. जितमेव । 2अ. यश्चाविभः ।

3अ. पृथु । 4अ. कश्यपाय ।

5अ. किलेमाम् । 6अ. घरा ।