पृष्ठम्:शङ्करविजयः.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
120
शङ्करविजये

तत्याज निद्रां किल पद्मनाभः
क्षीरोदशायी मुनयस्समाधिम् ।
गर्भा निपेतुर्लघु गर्भिणीनां
ब्रह्माण्डमेतच्चकितं तदानीम् ॥ ११७ ॥

यस्येक्षणेनैव जगत्समस्तं
कल्पावसाने लयमेत्यवश्यम् ।
तदुद्दिघीषुर्यतते दुराशो
विवेकदूरः खलु कोविदोऽपि ॥ ११८ ॥

निबध्य पुच्छं शिवलिङ्गमध्ये
बभ्राम संभ्रान्तमना हनूमान् ।
लिङ्गे विकारप्रतिपादनाय
न च क्षमोऽभूद्ब​हिरापपात ॥ ११९ ॥

पतन् हनूमान् कल मङ्गलायाः
क्षेत्रे पपातागतचित्तमोहः ।
आत्मानमन्यं न विवेद किञ्चि-
द्ववाम​ चोष्णं रुधिरं 1गतात्मा ॥ १२० ॥

श्रीमङ्गलायाः करुणाकटाक्ष-
पातेन सञ्जीवितवानमंस्त ।
निद्रा किमेषा मतिविभ्रमो वा
कुतो न्यपप्तं च वसुन्धरा का ॥ १२१ ॥

यत्रापतञ्चोदवमीच्च शोणितं
तत्तीर्थमद्यापि तथैव दृश्यते ।
हनूमतः कुण्डमुदाहरन्त त-
द्ध​नूमतो यत्तदभूत्पुरातनम् ॥ १२२ ॥


1अ. महात्मा ।