अथाविरासीद्धनुमान् सलिङ्ग-
श्चुकोप लिङ्गान्तरपूजनेन ।
आनायि लिङ्गं महतः प्रयत्ना-
द्विदूरदेशातदुपेक्षितं हा ॥ १०९ ॥
रुषितं हनुमन्तमूचिवान् रघुनाथः कृपयार्द्रमानसः ।
किमु रुप्यसि वत्स कारणं हनुमंल्लिङ्गमपूजि पूजितम् ॥ ११० ॥
अगस्त्यवाचा परिपूजितं मया
मुहूर्तकालाय भवत्यनागते ।
बिभेमि किञ्चिद्व्यसनोपसर्पका-
द्भवान् सदा मे व्यसनापसर्पकः ॥ १११ ॥
यदत्र कार्ये भवता तदीयं
वदात्र कार्यं तदहं विघास्ये ।
नेक्षेऽस्य कोपस्य महन्निदानं
प्रधानकार्येऽविदिते हि कोपः ॥ ११२ ॥
मदागमात्पूर्वमपूजि यत्त्वया
लिङ्गं तदुद्धृत्य मदीयलिङ्गके ।
संस्थापिते शाम्यति मामकं मनो
नो चेच्छ्रमो मे भविता निरर्थकः ॥ ११३ ॥
मया 1हनूमन्कृतलिङ्गचालनं कर्तुं न शक्यं मनसापि जीवता ।
त्वयैव कार्यं स्थितलिङ्गचालनं संस्थापनं तावकलिङ्गगोचरम् ॥ ११४ ॥
उच्चकर्ष किल पुच्छवेष्टितं लिङ्गमद्भुतबलोऽथ वानरः ।
उद्धरन् बहुविधेन कर्मणा संतताम वसुधा चचाल च ॥ ११५ ॥
क्षोभमीयुरथ वारिराशयः पेतुरुच्छ्रितनगाश्चकम्पिरे ।
पर्वतास्सवननिम्नगाः परं नाचलद्विपुललिङ्ग2मण्वपि ॥ ११६ ॥
1अ. स्थित 2का. मण्टपम् ।