सामग्री पर जाएँ

पृष्ठम्:शङ्करविजयः.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
113
अष्टमस्सर्गः

अस्पन्दतास्य नयनं किल वाममीषत्
पुस्फोर बाहुरपि वामगतस्तथोरुः ।
चुक्षाव तास्य पुरतः क्वचिदस्खलीञ्च​
सर्वं ययौ न गणयन् गुरुरस्मदीयः ॥ ७३ ॥

गतेऽत्र मेने किल मातुलोऽस्य
ग्रन्थे स्थितेऽस्मिन् गुरुपक्षहानिः ।
दग्धेऽत्र जायेत महापवादो
नोक्त्या निराकर्तुमपि प्रभुत्वम् ॥ ७४ ॥

पक्षस्य नाशाद्गृहनाश एव नो
वरं गृहेणैव दहामि पुस्तकम् ।
एवं निरूप्य न्यदधाद्धनाशनं
चुक्रोश चाग्निर्दहतीति मे गृहम् ॥ ७५ ॥

ऐतिह्यमाश्रित्य वदन्ति चैवं
तदेव मूलं मम भाषणेऽपि ।
यावत्कृतं तावदिहास्य कर्तु-
र्वाच्यं ततः स्याद्द्विगुणं प्रवक्तुः ॥ ७६ ॥

गच्छन्नसौ फुल्ल​मुनेर्जगाम
तमाश्रमं यत्र च रामचन्द्रः ।
अश्वत्थमूले न्यधित स्वचापं
स्वयं कुशानामुपरि न्यषीदत् ॥ ७७ ॥

तीर्त्वा समुद्रं जनकात्मजाया-
स्सन्दर्शनोपायमनीक्षमाणः ।
वसुन्धरायां प्रभवः प्ल​वङ्गा
न वारिराशौ बहवः क्षमन्ते ॥ ७८ ॥

Sankara-8