पृष्ठम्:शङ्करविजयः.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
112
शङ्करविजये

संदिश्येत्थं बन्धुनां भिक्षुराजो
भिक्षाञ्चक्रे मातुलस्यैव गेहे ।
पप्रच्छैनं मातुलो भुक्तवन्तं
किं स्विच्छनं पुस्तकं शिष्यहस्ते ॥ ६७ ॥

ठीका विद्वन्भाष्यगेति ब्रुवाण-
स्तां देहीति प्रोचुषेऽदत्त ताञ्च​ ।
अद्राक्षीत्तां मातुलस्तस्य बुद्धिं
दृष्ट्वाऽनन्दत् खेदमापञ्च​ किञ्चित् ॥ ६८ ॥

प्रबन्धनिर्माणविचित्रनैपुणीं
दृष्ट्वा प्रमोदं स विवेद किञ्चित् ।
मतान्तराणां किल युक्तिजालै-
र्निरुत्तरं बन्धनमालुलोचे ॥ ६९ ॥

गुरोर्म​तं स्वाभिमतं विशेषात्
निराकृतं तत्र समत्सरोऽभूत् ।
साधुर्निबन्धोऽयमिति ब्रुवाणं
तं साभ्यसूयं स कृताभिनन्दनः ॥ ७० ॥

गच्छामि सेतुं त्वयि पुस्तभारं
निक्षिप्य जीवो मम वर्ततेऽत्र ।
यथेतरेषां पशु हिरण्ये
प्रेमा तथा नः खलु पुस्तकेषु ॥ ७१ ॥

स पञ्चपादीं च गृहे प्रयास्यन्
शिष्टां निचिक्षेप तमेवमुक्त्वा ।
प्रतिष्ठमानस्य बभूव कष्टं
-निमित्तमेष्यत्फलसूचनाय ॥ ७२ ॥