पृष्ठम्:शङ्करविजयः.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
93
सप्तमस्सर्गः


आससाद शनकैर्दिशं मुने-
र्यस्य जन्म वसुधा घटी स्मृता ।
सेस्मृतिस्सकलरोगनाशिनी
योऽपिबज्जलधिमेकाबिन्दुवत् ॥ ९९ ॥

अद्राक्षीसुभणा हि भूषिततनुः श्रीकालहस्तीश्वरं
लिङ्गे सन्निहितं दधानमनिशं चान्द्रीं कलां मस्तके ।
पवत्य करुणारसार्द्रमनसा श्लिष्टं प्रमोदास्पदं
देवैरिन्द्रपुरोगमैर्जय जयेत्याभाष्यमाणं मुनिः ॥ १०० ॥

स्नात्वा सुवर्णमुवरीसलिलाशयेऽन्त-
र्गत्वा पुनः प्रणमति स्म शिवं भवान्या ।
आनर्च भावकुसुमैर्मनसा नुनाव
स्तुत्वा च तं पुनरयाचत तीर्थयात्राम् ॥ १०१ ॥

श्रीकालहस्तिपपदापुनराव्रजत्स
काञ्चीपुरं पुरवरं मुनिराजगाम ।
निर्वाणधाम कथयन्ति महाव्रता यत्
संसारसागरमनुत्तरमुत्तितीर्षॉः ॥ १०२ ॥

कष्टा दुष्टो भूसुरो वानरो वा
विट् शूद्रो वा चन्त्यनोऽनन्त्यजो वा ।
असाद्येदं क्षेत्रवर्यं शरीरं
त्यक्त्वाऽऽप्नोति व्यक्तमन्ते विमुक्तिम् ॥ १०३ ॥

अनेकजन्मप्रदकर्म कृत्वा
पुमान् विमुक्तः रवलु पुण्यलेशात् ।
आगत्य सत्क्षेत्रमिदं वितन्वन्
नाशं तनोरन्त उपैति मुक्तिम् ॥ १०४ ॥