पृष्ठम्:शङ्करदिग्विजयः.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
92
[अष्टमः
श्रीमच्छङ्करदिग्विजये

भवञ्छरीरादितरत्र चेशः कथं च शारीरपदाभिधेयः ।
नभः शरीरेऽपि भवत्यथापि न केऽपि शारीरमितीरयन्ति ।। १२४

यद्येष मन्त्रोऽनभिधाय जीवप्राज्ञौ वदेद्भुद्धिशरीरभाजौ।
अत्तीति भोक्तृत्वमचेतनाया बुद्धेर्वदेत्तर्हि कथं प्रमाणम् ॥ १२५

अदाहकस्याप्ययसः कृशानोराश्लेषणाद्दाहकता यथाऽऽस्ते ।
तथैव भोक्तृत्वमचेतनाया बुद्धेरपि स्याच्चिदनुप्रवेशात् ॥ १२६

छायातपौ यद्वदतीव भिन्नौ जीवेश्वरौ तद्वदिति ब्रुवाणा ।
ऋतं पिबन्ताविति काठकेषु श्रुतिस्त्वभेदश्रुतिबाधिकाऽस्तु ।। १२७

भेदं वदन्ती व्यवहारसिद्धं न बाधतेऽभेदपरश्रुतिं सा ।
एषा त्वपूर्वार्थतया बलिष्ठा भेदश्रुतेः प्रत्युत बाधिका स्यात् ॥ १२८

मानान्तरोपोद्वलिता हि भेदश्रुतिर्बलिष्ठा यमिनां वरेण्य ।
तद्भाधितुं सा प्रभवत्यभेदश्रुति प्रमाणान्तरबाधितार्थाम् । १२९

प्राबल्यमापादयति श्रुतीनां मानान्तरं नैव बुधाग्रयायिन् ।
गतार्थतादानमुखेन तासां दौर्बल्यसम्पादकमेव किन्तु ।। १३०

इत्याद्या दृढयुक्तिरस्य शुशुभे दत्तानुमोदा गिरां
देव्या तादृशविश्वरूपाभसावष्टंभमुष्टिंधया ।
भर्तृन्यासविलक्ष्यमूक्तिजननीसाक्षित्वकुक्षिभरिः
सश्लाघाद्भुतपुष्पवृष्टिलहरी सौगन्ध्यपाणिन्धया ।।
१३१

इत्थं यतिक्षितिपतेरनुमोद्य युक्तिं मालां च मण्डनगले मलिनामवेक्ष्य ।
भिक्षार्थमुच्चलतमद्य युवामिती मावाचष्ट तं पुनरुवाच यतीन्द्रमम्बा ॥ १३२

कोपातिरेकवशतः शपता पुरा मां दुर्वाससा तदवधिर्विहितो जयस्ते ।
साऽहं यथागतमुपैमि शमिमवीरेत्युक्त्वा ससंभ्रममुं निजधाम यान्तीम् ॥

बबन्ध निःशङ्कमरण्यदुर्गामन्त्रेण तां जेतुमना मुनीन्द्रः ।
जयोऽपि तस्याः स्वमतैक्यसिद्धयै सार्वज्ञतः स्वस्य न मानहेतोः ॥ १३४