सामग्री पर जाएँ

पृष्ठम्:शङ्करदिग्विजयः.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ८]
91
श्रीमदाचार्यमण्डनमिश्रसंवादः


भो 'द्वा सुपर्णा सयुजा सखाये'त्याद्या श्रुतिर्भेदमुदीरयन्ती ।
जीवेशयोः पिप्पलभोक्तॄभोक्त्रोस्तयोरभेदरश्रुतिबाधिकाऽस्तु ॥ ११२

प्रत्यक्षसिद्धे विफले परात्मभेदे श्रुतिर्नो नयवित्प्रमाणम् ।
स्यादन्यथा मानमतत्परोऽपि स्वार्थेऽर्थवादः सकलोऽपि विद्वन् ॥ ११३

स्मृतिप्रसिद्धार्थविबोधि वाक्यं यथेष्यते मूलतया प्रमाणम् ।
प्रत्यक्षसिद्धार्थकवाक्यमेवं स्यादेव तन्मूलतया प्रमाणम् ॥ ११४

श्रतिः स्मृतेऽर्थे यदि वेदविद्भिर्भवेन्न तन्मूलतया प्रमाणम् ।
कथं भवेद्वेद कथानभिज्ञैर्ज्ञातेऽपि भेदे परजीवयोः सा ॥
११५

जीवेश्वरौ सा बदतीत्युपेत्य प्रावोचमेतत्परमार्थतस्तु ।
विविच्य सत्वात्पुरुषं समस्तसंसारराहित्यममुष्य वक्ति ।। ११६

यदीयमाख्यात्यथ सत्त्वजीवौ विहाय सर्वज्ञशरीरभाजौ ।
जडस्य भोक्तृत्वमुदाहरन्ती प्रामाण्यमर्हन् कथमश्नुवीत ।। ११७

न चोदनीया वयमत्र विद्वन् यतस्त्वया पैङ्गिरहस्यमेव ।
अत्तीति सत्वं त्वभिपश्यति ज्ञ इति स्म सम्यग्विवृणोति मन्त्रम् ॥ ११८

शरीरवाची ननु सत्त्वशब्दः क्षेत्रज्ञशब्दः परमात्मवाची ।
तत्राप्यतो नान्यपरत्वमस्य वाक्यस्य पैङ्ग्योदितवर्त्मनाऽपि ॥ ११९

तदेतदित्यादिगिरा हि चित्ते प्रदर्शिता सत्वपदस्य वृत्तिः ।
क्षेत्रज्ञशब्दस्य च वृत्तिरुक्ता शारीरके द्रष्टरि तत्र विद्वन् ॥ १२०

येनेति हि स्वप्नदृसशिक्रियायाः कर्तोच्यते तत्र स जीव एव ।
क्षेत्रज्ञशब्दाभिहितश्च योगिन् स्यात्स्वप्नदृक्र् सर्वविदीश्वरोऽपि ॥ १२१

तिङ्प्रत्ययेनाभिहितोऽत्र कर्ता ततस्तृतीया करणेऽभ्युपेया ।
द्रष्टा च शारीरतया मनीषिन् विशेष्यते तेन स नेश्वरः स्यात् ॥ १२२

वृत्तिः शरीरे भवतीत्यमुष्मिन्नर्थे हि शारीरपदस्य योगिन् ।
तस्मिन् भवन् सर्वगतो महेशः कथं न शारीरपदाभिधेयः ॥ १२३