तर्ह्यस्तु जीवे परमात्मदृष्टिविधायकः कर्मसमृद्धयेऽर्हन् ।
अब्रह्मणि ब्रह्मधियं विधत्ते यथा मनोऽन्नार्कनभस्वदादौ ।।
संश्रूयतेऽन्यत्र यथा लिङादिर्विधायको ब्रह्मविभावनाय ।
तथा विधेरश्रवणान्मनीषिन् संजाघटीत्यत्र कथं विधानम् ॥
यद्वत्पतिष्ठाफलदर्शनेन विधिर्यतीनां वर रात्निसत्रे ।
प्रकल्प्यते तद्वदिहापि मुक्तिफलश्रुतेः कल्पयितुं स युक्तः ॥
तर्हि क्रियाजन्यतया विमुक्तिः स्वर्गादिवद्धन्त विनश्वरा स्यात् ।
उपासना कर्तुमकर्तुमन्यथा वा कर्तुमर्हा मनसः क्रियैव ॥ ८५
मा भूदिदं तत्त्वमसीति वाक्यमुपासनापर्यवसायि कामम् ।
किन्त्वस्य जीवस्य परेण साम्यप्रत्यायकं सत्तम बोभवीतु ॥
८६
किं चेतनत्वेन विवक्ति साम्यं सार्वज्ञ्यसार्वात्म्यमुखैर्गुणैर्वा ।
आद्ये प्रसिद्धं न खलूपदेश्यमन्ते स्वसिद्धान्तविरुद्धता स्यात् ॥
नित्यत्वमात्रेणं मुने परात्मगुणोपमानैः सुखबोधपूर्वैः ।
गुणैरविद्यावृतितोऽमतीतैः साम्यं ब्रवीत्वस्य ततो न दोषः ॥
यद्येवमेतस्य परत्वमेव प्रत्याययत्वत्र दुराग्रहः कः ।
त्वयैव तस्य प्रतिभासशङ्का विद्वन्नविद्यावरणान्निरस्ता॥
भोश्चेतनत्वेन शरीरिसाम्यमावेद्यतापस्य जगत्प्रसूतेः ।
चिदुत्थितत्वेन परोदितस्याप्यणुप्रधानप्रभृतेर्निरासः ॥
हन्तैवमस्तीति तदा प्रयोगः स्यात्चन्मते तत्त्वमसीति न स्यात् ।
तदक्षतेत्यत्र जडत्वशङ्काव्यावर्तनाच्चात्र पुनर्न चोद्यम् ॥
९१
न त्वेवमप्यैक्यपरत्वमस्य प्रत्यक्षपूर्वप्रमितिपकोपात् ।
न युज्यते तज्जपमात्रयोगिस्वाध्यायविध्याश्रितमभ्युपेयम् ॥ ९२
अक्षेण चेद्भेदमितिस्तदा स्यादभेदवादिश्रुतिवाक्यवाधः ।
असन्निकर्षान्न भवेद्धि भेदप्रमैव तेनास्य कुतो विरोधः ॥ ९३
८९
पृष्ठम्:शङ्करदिग्विजयः.djvu/९४
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
88
[अष्टमः
श्रीमच्छङ्करदिग्विजये