पृष्ठम्:शङ्करदिग्विजयः.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
86
[अष्टमः
श्रीमच्छङ्करदिग्विजये

पत्या नियुक्ता पतिदेवता सा सदस्यभावे सुदती चकाशे ।
तयोविवेक्तुं श्रुततारतम्यं समागता संसदि भारतीव ॥
५९
प्रवृद्धवादोत्सुकतां तदीयां विज्ञाय विज्ञः प्रथमं यतीन्द्रः ।
परावरज्ञः स परावरैक्यपरां प्रतिज्ञामकरोत्स्वकीयाम् ॥

ब्रहैक्यं परमार्थप्तच्चिदमलं विश्वपश्चात्मना
शुक्ती रूप्यपरात्मनेव बहलाज्ञानावृतं भासते ।
तज्ज्ञानान्निखिलप्रपञ्चनिलया स्वात्मव्यवस्था परं
निर्वाणं जनिमुक्तमभ्युपगतं मानं श्रुतेर्मस्तकम् ॥ ६१

बाढं जये यदि पराजयभागहं स्यां संन्यासमङ्ग परिह्रुत्य कपायचेलम् ।
शुक्लं वसीय वसनं द्वयभारतीय वादे जयाजयफलपतिदीपिकाऽस्तु ।

इत्थं प्रतिज्ञां कृतवत्युदारां श्रीशङ्करे भिक्षुबरे स्वकीयाम् ।
स विश्वरूपो गृहमेधिवर्यश्चक्रे प्रतिज्ञां स्वमतमतिष्ठाम् ।। ६३

वेदान्ता न प्रमाणं चितिवपुषि पदे तत्र संगत्ययोगा-
त्पूर्वो भागः प्रमाणं पदचयगमिते कार्यवस्तुन्यशेषे ।
शब्दानां कार्यमात्रं प्रति समधिगता शक्तिरभ्युन्नतानां
कर्मभ्यो मुक्तिरिष्टा तदिह तनुभृतामाऽऽपुषः स्यात्समाप्तेः ॥ ६४

वादे कृतेऽस्मिन्यदि मे जयान्यस्त्वयोदितात्स्यात्द्विपरीतभावः ।
येयं त्वयाऽभूगदिता प्रसाक्ष्ये जानाति चेत्सा भविता वधूर्मे ।।

जेतुः पराजित इहाश्रममादददीतेत्येतौ मिथः कृतपणौ यतिविश्वरूपौ ।
अम्बामुदारधिषणामभिषिच्य साक्ष्ये जल्पं वितेनतुरथो जयदत्तदृष्टी ।।

आवश्यकं परिसमाप्य दिने दिने तौ वादं समं व्यतनुतां किल सर्ववेदौ।
एवं विजेतुपनसोरुपविष्टयोस्तां मालां गले न्यधित सोभयभारतीयम् ।।

माला यदा मलिनभावमुपैति कण्ठे यस्यापि तस्य विजयेतरनिश्चयः स्यात् ।
उक्त्वा गृहं गतवती गृहकर्मसक्ता भिक्षाशने पिचरितुं गृहिमस्करिभ्याम् ।।

अन्योन्यसञ्जयफले विहितादरौ तौ वादं विवादपरिनिर्णयमातनिष्टाम् ।
ब्रह्मादयः सुरवरा अपि वाहनस्थाः श्रोतुं तदीयसदने स्थितवन्त ऊर्ध्वम् ॥