पृष्ठम्:शङ्करदिग्विजयः.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ६]
79
व्यासदर्शनादिचरितवर्णनम्

यदीह सन्देहपदप्रयोगाद्व्याजेन शास्त्रश्रवणाच हेतोः ।
ममोच्चदेशात्पततो व्यनंक्षीत्तदेकचक्षुर्विधिकल्पना सा ।। ९९

एकाक्षरस्यापि गुरुः प्रदाता शास्त्रोपदेष्टा किमु भाषणीयम् ।
अहं हि सर्वज्ञगुरोरधीत्य प्रत्यादिशे तेन गुरोर्महागः ।। १००

तदेवमित्थं सुगतादधीत्य पाघातयं तत्कुलमेव पूर्वम् ।
जैमिन्युपज्ञे ऽभिनिविष्टचेताः शास्त्रे निरास्थं परमेश्वरं च ।। १०१



दोषद्वयस्यास्य चिकीर्षुरर्हन् यथोदितां निष्कृतिमाश्रयाशम् ।
प्राविक्षमेषा पुनरुक्तभूता जाता भवत्पादनिरीक्षणेन । १०२

भाष्यं प्रणीतं भवतेति योगिन्नाकर्ण्य तत्रापि विधाय वृत्तिम् ।
यशोऽधिगच्छेयमिति स्म वाञ्च्छा स्थिता पुरा सम्पति किं तदुक्त्या ॥

जाने भवन्तमहमार्यजनार्थजातमद्वैतरक्षणकृते विहितावतारम् ।
प्रागेव चेन्नयनवर्त्म कृतार्थयेथाः पापक्षयाय न तदेदृशमाचरिष्यम् ।।
प्रायोऽधुना तदुभयप्रभावघशान्त्यै
प्राविक्षमार्य तुषपावकमात्तदीक्षः।
भाग्यं न मेऽजनि हि शाबरभाष्यवत्व-
द्भाष्येऽपि किंचन विलिख्य यशोऽधिगन्तुम् ॥ १०५

इत्युचिवांसमथ भट्टकुमारिलं तमीषद्विकस्वरमुखाम्बुजमाह मौनी ।
श्रुत्यर्थकर्मविमुखान् सुगतान्निहन्तुं जातं गुहं भुवि भवन्तमहन्तु जाने ।
संभावनाऽपि भवतो न हि पातकस्य सत्यं व्रतं चरसि सज्जनशिक्षणाय ।
उज्जीवयामि करकाम्बुकणोक्षणेन भाष्येऽपि मे रचय वार्तिकमङ्ग भव्यम् ।।

इत्यूचिवांसं विबुधावतंसं स धर्मविब्द्रह्मविदां वरेण्यम् ।
विद्याधनः शान्तिधनाग्रगण्यं सपश्रयं वाचमुवाच भूयः ॥

नार्हामि शुद्धमपि लोकविरुद्धकृत्यं कर्तुं मयीड्य महितोक्तिरियं तवार्हा ।
आजानतोऽतिकुटिलेऽपिजने महान्तस्त्वारोपयन्ति हि गुणं धनुषीव शूराः।।
संजीवनाय चिरकालमृतस्य च त्वं शक्तोऽसि शङ्कर दयोर्मिलदृष्टिपातैः ।
आरब्धमेतदधुनाव्रतमागमोक्तं मुञ्चन् सतां न भविताऽस्मि बुधाविनिन्द्यः॥