पृष्ठम्:शङ्करदिग्विजयः.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
78
[सप्तमः
श्रीमच्छङ्करदिग्विजये

युनक्ति कालः कचिदिष्टवस्तुना क्वचित्वरिष्टेन च नीचवस्तुना ।
तथैव संयोज्य वियोजयत्यसौ सुखासुखे कालकृते प्रवेद्ययतः ॥ ८७

कृतो निबन्धो निरणायि पन्था निरासि नैयायिकयुक्तिजालम् ।
तथाऽन्वभूवं विषयोत्थजातं न कालमेनं परिहर्तुमीशे ॥ ८८

निरास्थमीशं श्रुतिलोकसिद्धं श्रुतेः स्वतोमात्वमुदाहरिष्यन् ।
न निन्हुवे येन विना प्रपश्चः सौख्याय कल्पेत न जातु विद्वन् । ८९

तथागताक्रान्तमभूदशेषं स वैदिकोऽध्वा विरलीबभूव ।
परीक्ष्य तेषां विजयाय मार्गं प्रावर्तिषि त्रातुमनाः पुराणम् ॥

सशिष्यसङ्घाः पविशन्ति राज्ञां गेहं तदादि स्ववशे विधातुम् ।
राजा मदीयोऽजिरमस्मदीयं तदाद्रियध्वं न तु वेदमार्गम् ॥

वेदोऽप्रमाणं बहुमानबाधात् परस्परव्याहतवाचकत्वात् ।
एवं वदन्तो विचरन्ति लोके न काचिदेषां प्रतिपत्तिरासीत् ।। ९२

अवादिषं वेदविघातदक्षैस्तन्नाशकं जेतुमबुध्यमानः ।
तदीयसिद्धान्तरहस्यवर्धीन्निषेध्यबोधाद्धि निषेध्यबाधः ॥ ९३

तदा तदीयं शरणं प्रपन्नः सिद्धान्तमश्रौषमनुद्धतात्मा ।
अददुषद्वैदिकमेव मार्गं तथागतो जातु कुशाग्रबुद्धिः ॥

तदाऽपतन्मे सहसाऽश्रुबिन्दुस्तच्चाविदुः पार्श्वनिवासिनोऽन्ये ।
तदापभृत्येव विवेश शङ्का मय्याप्तभावं परिहृत्य तेषाम् ।। ९५

विपक्षपाठी बलवान् द्विजातिः प्रत्याददद्दर्शनमस्मदीयम् ।
उच्चाटनीयः कथमप्युपायैनैतादृशः स्थापयितुं हि योग्यः ।९६

संमन्त्र्य चेत्थं कृतनिश्चयास्ते ये चापरेऽहिंसनवादशीला:।
न्यपातयन्नुच्चतरात् प्रमत्तं मामग्रसौधाद्विनिपातभीरुम् ॥

पतन् पतन् सौधतलान्यरोहं यदि प्रमाणं श्रुतयो भवन्ति ।
जीवेयमस्मिन् पतितोऽसमस्थले मज्जीवने तच्छ्रुतिमानता गतिः ।।