पृष्ठम्:शङ्करदिग्विजयः.djvu/६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
63
आत्मविद्याप्रतिष्ठा

इत्युदारवचनैर्भगवन्तं संस्तुवन्तमथ च प्रणमन्तम् ।
बाष्पपूर्णनयनं मुनिवर्यं शङ्करः सबहुमानमुवाच ॥ ४४

अस्मदादिपदवीमभजस्वं शोधिता तव तपोधननिष्ठा ।
बादरायण इव त्वमपि स्या: सद्वरेण्य मदनुग्रहपात्रम् ॥ ४५

संविभज्य सकलतिजालं ब्रह्ममूत्रमकरोदनुशिष्टः ।
यत्न काणभुजसांख्यपुरोगाण्युद्धतानि कुमतानि समूलम् ।।४६

तत्र मूढमतयः कलिदोषाद् द्वित्रवेदवचनोद्वलितानि ।
भाष्यकाण्यरचयन् बहुबुद्धैर्दूष्यतामुपगतानि च कैश्चित् ॥

तद्भवान्विदितवेदशिखार्थस्तानि दुर्मतिमतानि निरस्य ।
सूत्रभाष्यमधुना विदधातु श्रुत्युपोद्बलितयुक्त्यभियुक्तम् ॥ ४८

एतदेव विबुधैरपि सेन्द्रैरर्चनीयमनवद्यमुदारम् ।
तावकं कमलयोनिसभायामप्यवाप्स्यति वरां वरिवस्याम् ।। ४९

भास्कराभिनवगुप्तपुरोगान्नीलकण्ठगुरुमण्डनमुख्यान् ।
पण्डितानथ विजित्य जगत्यां ख्यापयाद्वयमते परतत्वम् ॥ ५०

मोहसंतमसवासरनाथांस्तत्र तत्र विनिवेश्य विनेयान् ।
पालनाय परतत्त्वसरण्या मामुपैष्यसि ततः कृतकृत्यः ।। ५१

एवमेनमनुगृह्य कृपावानागमैः सह शिवोऽन्तरघत्त ।
विस्मितेन मनसा सह शिष्यैः शङ्करोऽपि सुरसिन्धुमयासीत् ॥ ५२

संनिवर्त्य विधिमान्हिकमीशं ध्यायतो गुरुमथाऽखिलभाष्यम् ।
कर्तुमुद्यतमभूद् गुणसिन्धोर्मानसं निखिललोकहिताय ।। ५३

कर्तृत्वशक्तिमधिगम्य स विश्वनाथात् काशीपुरान्निरगमत्त्व विकासभाजः ।
प्रीतः सरोजमुकुलादिव चञ्जरीकनिर्बन्धतः सुखमवाप यथा द्विजेन्द्रः ।।

अद्वैतदर्शनविदां भुवि सार्वभौमो यात्येष इत्युडुपबिम्बसितातपत्रम् ।
अस्ताचले वहति चारु पुरः प्रकाशव्याजेन चामरमथादिव दिक्सुकान्ता ।।