पृष्ठम्:शङ्करदिग्विजयः.djvu/६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
सर्गः ६]
61
संन्यासग्रहणम्

एकदा खलु वियत्त्रिपुरद्विड्भाललोचनहुताशनभानोः ।
विस्फुलिङ्गपदवीं दधतीषु प्रज्ज्वलत्तपनकान्तिशिलासु ।।२१

दर्शयत्युरुमरीचिसरस्वत्पूरसृज्यपरमायिनि* भानौ ।
साधुनैकमणिकुट्टिममूर्च्छद्रश्मिजालकशिखावलपिच्छम् ।।२२२

पङ्कजावलिविलीनमराले पुष्करान्तरभिगत्वरमीने ।
शाखिकोटरशयालुशकुन्ते शैलकन्दरशरण्यमयूरे ।।२३

शङ्करो दिवसमध्यमभागे पङ्कजोत्पलपरागकषायाम् ।
जाह्नवीमभिययौ सह शिष्यैराह्निकं विधिवदेष विधित्सुः ।।२४

सोऽन्त्यजमं पथि निरीक्ष्य चतुर्भिर्भीषणैः श्वभिरनुद्रुतमारात् ।
गच्छ दूरमिति तं निजगाद प्रत्युवाच च स शङ्करमेनम् ।।२५

अद्वितीयमनवद्यमसङ्गं सत्यबोधसुखरूपमखण्डम् ।
आमनन्ति शतशो निगमान्तास्तत्र भेदकलना तव चित्रम् ।।२६

दण्डमण्डितकरा धृतकुण्डा: पाटलाभवसनाः पटुवाचः ।
ज्ञानगन्धरोहिता गृहसंस्थान् वश्चयन्ति किल केचन वेषैः ।।२७

गच्छ दूरमिति देहमुताहो देहिनं परिजिहीर्षसि विद्वन् ।
भिद्यतेऽन्नमयतोऽन्नमयं किं साक्षिणश्च यतिपुंगव साक्षी ।।२८

ब्राह्मणश्वपचभेदविचारः प्रत्यगात्मनि कथं तव युक्तः ।
विम्बितेऽम्बरमणौ सुरनद्यामन्तरं किमपि नास्ति सुरायाम् ।।२९

शुचिर्द्विजोऽहं श्वाच व्रजेति मिथ्याग्रहस्ते मुनिवर्य कोऽयम् ।
सन्तं शरीरेष्वशरीरमेकमुपेक्ष्य पूर्णं पुरुषं पुराणम् ।।३०

अचिन्त्यमव्यक्तमनन्तमाद्यं विस्मृत्य रूपं विमलं विपोहात् ।
कलेवरेऽस्मिन्करिकर्णलोलाकृतिन्यहंता कथमाविरास्ते ।।३१

विद्यामवाप्यापि विमुक्तिपद्यां जागर्ति तुच्छा जनसंग्रहेच्छा ।
अहो महान्तोऽपि महेन्द्रजाले मज्जन्ति मायाविवरस्य तस्य ।

* लोकविलक्षणैन्द्रजालिके-इति व्याख्या ॥