पृष्ठम्:शङ्करदिग्विजयः.djvu/६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
60
[षष्ठः
श्रीमच्छङ्करदिग्विजये

द्यावाभूमिशिवंकरैर्नवयशःमस्तावसौवस्तिकैः
पूर्वारवर्वतपःपचोलिमफलैः सर्वाधिमुष्टिंधयैः ।
दीनाढ्यंकरणैर्भवाय नितरां वैरायमाणैरलं-
कर्मीणं प्रसितं त्वदीयभजनैः स्यान्मामकीनं मनः ।। १२

संसारबन्धामयदुःखशान्त्यै स एव नस्त्वं भगवानुपास्यः ।
भिषक्तमं त्वां भिषजां शृणोमीत्युक्तस्य योऽभूदुदितावतारः ॥ १३

इत्युक्तवन्तं कृपया महात्मा व्यदीपयत्संन्यसनं यथावत् ।
 प्राहुमहान्तः प्रथमं विनेयं तं देशिकेन्द्रस्य सनन्दनाख्यम् ॥

संसारघोरजलधेस्तरणाय शश्वत्सांयात्रिकीभवनमर्दयमानमेनम् ।
हन्तोत्तमाश्रमतरीमधिरोप्य पारं निन्ये निपातितकृपारसकेनिपातः ॥१५

येऽप्यन्येऽमुं सेवितुं देवतांशा यातास्तेऽपि प्राय एवं विरक्ताः ।
क्षेत्रे तस्मिन्नेव शिष्यत्वमस्य प्रापुः स्पष्टं लोकरीत्याऽपि गन्तुम् ॥ १६

व्याख्या मौनमनुत्तराः परिदलच्छङ्काकलङ्काङ्करा-
श्छात्रा विश्वपवित्रचित्रचारितास्ते वामदेवादयः ।
तस्यैतस्य विनीतलोकततिमुद्धर्तुं धरित्रीतलं
प्राप्तस्याद्य विनेयतामुपगता धन्याः किलान्यादृशः ॥ १७

शेषः साधुभिरेव तोषयति नृञ्छब्दैः पुमर्थाथिनो
वाल्मीकिः कविराज एष वितथैरथैर्नमुहुः कल्पितैः ।
व्याचष्टे किल दीर्घसूत्रसरणिर्वाचं चिरादर्थदां
व्यासः शङ्करदेशिकस्तु कुरुते सद्यः कृतार्थानहो ।| १८

चक्रितुल्यमहिमानमुपासांचक्रिरे तमविमुक्तनिवासाः ।
वक्रस्रुत्यनुमृतामपि साध्व्वी चक्रुरात्मधिषणां तदुपास्त्या ॥१९

चण्डभानुरिव भानुमण्डलैः पारिजात इव पुष्पजाततः ।
वृत्रशत्रुरिव नेत्रवारिजैश्छात्रपङक्तिभिरलं ललास सः ।।२०