स्वर्णदीजलकणाहितशोभा मूर्तिरस्य सुतरां विललास ।
चन्द्रपादगलदम्बुकणाङ्का पुत्रिका शशिशिलारचितेव ॥ १७१
विश्वेशश्चरचणयुगं प्रणम्य भक्त्या हर्याद्यैत्रिदशवरैः समर्चितस्य ।
सोऽनैषीत्प्रययतमना जगत्पवित्रे क्षेत्रेऽसाविह समयं कियन्तमार्यः ॥ १७२
इति श्रीमाधवीये तत्सुखाश्रमनिवासगः ।
संक्षेपशङ्करजये सर्गोऽयं पञ्चमोऽभवत् ॥ ५ ॥
आदितः श्लोकाः 556
अथ षष्ठः सर्गः ॥ ६ ॥
आत्मविद्याप्रतिष्ठा ॥
अथागमद्ब्राह्मणसूनुरादरादधीतवेदो दलयन् स्वभासा ।
तेजांसि कश्चित्सरसीरुहाक्षो दिदृक्षमाणः किल देशिकेन्द्रम् ॥
आगत्य देशिकपदाम्बुजयोरपप्तत् संसारवारिधिमनुत्तरमुत्तितीर्षुः ।
वैराग्यवानकृतदारपरिग्रहश्च कारुण्यनावमधिरुह्य दृढां दुरापाम् ।।
उत्थाप्य तं गुरुरुवाच गुरुर्द्विजानां
कस्त्वं क्व धाम कुत आगत आत्तधैर्यः ।
बालोऽप्यबालधिषणः प्रतिभासि मे त्व-
मेकोऽप्यनेक इव नैकशरीरभावः ।।
पृष्टो बभाण गुरुमुत्तरमुत्तरज्ञो
विप्रो गुरो मम गृहं बुध चोलदेशे ।
यत्रापगा वहति तत्र कवेरकन्या
यस्याः पयो हरिपदाम्बुजभक्तिमूलम् ।।
अटाट्यमानो महतो दिदृक्षुः क्रमादिमं देशमुपागतोऽस्मि ।
बिभेमि मज्जन् भववारिराशौ तत्पारगं मां कृपया विधेहि ॥