पृष्ठम्:शङ्करदिग्विजयः.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः ५]
57
संन्यासग्रहणम्

दुर्मतानि निरसिष्यति सोऽयं शर्मदायि च करिष्यति भाष्यम् ।
कीर्तयिष्यति यशस्तव लोकः कार्तिकेन्दु करकौतुकि येन ॥१४९

इत्युदीर्य मुनिराट् स बनान्ते पत्युराप सुगिरिं गिरिजाया: ।
तन्मुखाच्छ्रतमशेषमिदानीं सन्मुनिप्रिय मया त्वयि दृष्टम् ॥१६०

स त्वमुत्तमपुमानसि कश्चित्तत्त्ववित्मवर नान्यसमान: ।
तद्यतस्व निरवद्यनिबन्धैः सद्य एव जगदुद्धरणाय ॥१६१

गच्छ वत्स नगरं शशिमौले: स्वच्छदेवतटिनी कमनीयम् ।
तावता परमनुग्रहमाद्या देवता तब करिष्यति तस्मिन् ॥१६२

एवमेनमनुशास्य दयालुः पावयन्निजदृशा विससर्ज ।
भावत: स्वचरणाम्बुजसेवामेव शश्वदभिकामयमानम् ॥१६३

पङ्कजप्रतिभटं पदयुग्मं शङ्करोऽस्य निरगादसहिष्णुः ।
तद्वियोगमभिवन्द्य कथंचित्तद्विलोकनमयन् हृदयाब्जे ॥१६४

माप तापसवरः स हि काशीं नीपकाननपरीतसमीपाम् ।
आपगानिकटहाटकचञ्च यूपपङ्किसमुदञ्चितशोभाम् ॥१६५

संददश स भगीरथतप्तामन्दतीव्रतपसः फलभूताम् ।
योगिराडुचिततीरनिकुञ्ज भोगिभूषणजटातटभूषाम् ॥१६६

विष्णुपादनखराज्जननाद्वा शंभुमौलिशशिसंगमनाद्वा ।
या हिमाद्रिशिखरात्पतनाद्वा स्फाटिकोपपजला प्रतिभाति ॥१६७

गायतीव कलषट्पद नादैर्नृत्यतीव पवनोच्चलिताब्जैः ।
मुञ्चतीव हसितं सितफेनैः श्लिष्यतीव चपलोर्मिकरैर्या ॥१६८

श्यामला कचिदपाङ्गमयूखैश्चित्रिता वचन भूषणभाभिः ।
पाटला कुचतटीगलितैर्या कुडुमैः वचन दिव्यवधूनाम् ॥१६९

सोडवगाह्य सलिलं सुरसिन्धोरुत्ततार शितिकण्ठजटाभ्यः ।
जाह्नवी सलिलवेगहतस्तद्योगपुण्यपरिपूर्ण इवेन्दुः ॥१७०