पृष्ठम्:शङ्करदिग्विजयः.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः ४ ]
31
कौमारचरितवर्णनम्

विदितं तव वत्स हृद्गतं कृतमेभिर्न पुरा भवे शुभम् ।
अधुना मदपाङ्गपात्रतां कथमेते महितामवाप्नुयुः ॥ २८
इति तद्वचनं स शुश्रुवाभिजगादाम्ब मयीदमर्पितम् ।
फलमद्य ददस्व तत्फलं दयनीयो यदि तेऽहमिन्दिरे ॥२९
अमुना वचनेन तोषिता कमला तद्भवनं समन्ततः ।
कनकामलकैरपूरयज्जनताया हृदयं च विस्मयैः ॥३०
अथ चक्रभृतो वधूपये सुकृतेऽन्तर्धिमुपागते सति ।
प्रशशंसुरतीय शङ्करं महिमानं तमवेक्ष्य विस्मिताः ॥३१
दिवि कल्पतरुर्यथा तथा भुवि कल्याणगुणो हि शङ्करः ।
सुरभूसुरयोरपि प्रियः समभूदिष्टविशिष्टत्रस्तुदः ॥३२
अमरस्पृहणीयसम्पदं द्विजवर्यस्य निवेशमात्मवान् ।
स विधाय यथापुरं गुरोः सविधे शास्त्रवराण्यशिक्षत ॥३३
वरमेनमवाप्य भेजिरे परभागं सकला: कला अपि ।
समवाप्य निजोचितं पतिं कमनीया इव वामलोचना: ॥३४
सरहस्यसमग्र शिक्षिताखिलविद्यस्य यशस्विनो वपुः ।
उपमानकथाप्रसङ्गमध्यसहिष्णु श्रियमन्वपद्यत ॥३५
जयति स्म सरोरुहमभामदकुण्ठीकरणक्रियाचणम् ।
द्विजराजकरोपलालितं पदयुग्मं परगर्वहारिणः ॥३६
जलमिन्दुमणिं स्रवेद्यदि यदि पद्मं दृषदः ततः सरः ।
यदि तत्र भवेत्कुशेशयं तदमुष्यांत्रितुलामवाप्नुयात् ॥३७
 पादौ पद्मसमौ वदन्ति कतिचिच्छ्रीशङ्करस्यानघौ
  वक्तुं च द्विजराज-मण्डलनिभं नैतद् द्वयं साम्प्रतम् ।
 मेष्य: पद्मपदः किल त्रिजगति ख्यातः पदं दत्तवा-
  नम्भोजे द्विजराजमण्डलशतैः मेव्यैरुपास्यं मुखम् ॥३८