तदसिद्धिमुखानुमानदोषानुदयादुक्तनयस्य निर्मलत्वम् ।
भ्रमधीममितित्व वे दिनोऽतस्तक न भ्रान्तिपदार्थ एव सिध्येत् ॥ १२६
अपि च भ्रम एष किं तवान्तःकरणस्येति चिदात्मनोऽथवाऽसौ ।
परिणाम इहाssदिमो न तस्याऽऽत्मगतत्वानुभवस्य भङ्गपत्तेः ॥ १२७
ननु रक्ततमप्रसूनयोगात् स्फटिके संस्फुरणं यथाऽरुणिनः ।
भ्रमसंयुतचित्तयोगतोऽस्य भ्रमणस्यानुभवस्तथाऽऽत्मनि स्यात् ॥ १२८
इति चेदयमीरयाऽऽत्मयोगो भ्रमणस्याऽऽश्रित एष सन्नसन्वा ।
प्रथमो घटते न संसृजेस्तेऽपरथाख्यातिवदस्य शुन्यकत्वात् ॥ १२९
चरमोऽपि न युज्यतेऽपरोक्ष पथन स्यानुपपद्यमानतायाः ।
परिणाम विशेष आत्मनोऽसौ भ्रम इत्येष न युज्यतेऽन्त्यपक्षः ॥ १३०
असभागतयात्मनो निरस्तेतरयुक्तेः परिणत्ययोग्यतायाः ।
परिणत्ययुजेश्च योग्यतायामपि बुद्ध्याकृतितश्चिदात्मनोऽस्य ॥ १३१
न हि नित्य चिदाश्रयपतीचः परिणामः पुनरन्य चित्स्वरूपः ।
गुणयो: समुदायगत्ययोगाद्गुणतावान्तरजातितः सजात्योः ॥१३२
युगपत्समवैति नो हि शौक्लयद्वयकं यत्र च कुत्रचियदेतत् ।
ननु चिन्न गुणो गुणी तथा च प्रसरेन्नोदितदुष्टतेति चेन्न ॥१३३
कटकाश्रयभूतदीप्तहेनो रुचकाधारकभाववत्तथैव ।
अविनाशिचिदाश्रयस्य भूयोऽन्यचिदाधारतया स्थितेरयोगात् ॥ १३४
न च संस्कृतिरग्रहोऽप्यविद्या भ्रमशब्दार्थनिरुक्त्यसंभवेऽपि ।
भ्रमसंज्ञितवस्त्वसंभवेन भ्रमसंपादित संस्कृते रयोगात् ॥ १३५
अपि नाग्रहणं चितेरभावश्चितिरूपग्रहणस्य नित्यतायाः ।
तदसंभवतो न वृत्यभावस्तदभावेऽपि चिदात्मनोऽवभासात् ॥ १३६
न च भञ्जकमीक्ष्यते न तस्योपगमे दुःखजडानृतात्मकस्य ।
इति वाच्यमखण्डवृत्तिरूद्वेश्वरबोधस्य निवर्तकत्वयोगात् ॥१३७
पृष्ठम्:शङ्करदिग्विजयः.djvu/१६९
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः १५]
163
आचार्यकृतदिग्विजयवर्णनम्