पृष्ठम्:शङ्करदिग्विजयः.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
162
[पञ्चदशः
श्रीमच्छङ्करदिग्विजये

ननु गोत्व उपाधिके त्वमुष्य प्रतिपन्नस्य हि तत्र नो निषेधः ।
अपि तु प्रथमानमुण्ड इत्यत्र तथा च व्यभिचारिता न हेतोः ॥ ११४

इति चेन्न विकल्पनासहत्वात् किमु खण्डस्य तु केवले निषेधः ।
उत गोत्वसमन्विते स मुण्डे प्रथमो नो घटते प्रसत्त्यभावात् ॥ ११५

न हि जास्वपि खण्डके प्रसक्तः परमुण्डस्त्विति संपसत्त्यभावः ।
चरमोऽपि न गोत्वयुक्तमुण्डे खलु खण्डस्य निषेधकाल एव ॥ ११६

स्वविशेषणभूतगोत्व एव स्फुटमेतस्य निषेधनं श्रुतं स्यात् ।
तदिहोदित हेतु सचतोऽस्य व्यभिचारो दृढवज्रलेप एव ॥११७

ननु भातितरामुपाघिरवादलदेतद्वयवहर्तृतेति चेन्न ।
अहमोऽनुभवेन साधनव्यापकभावादवगत्यनन्तरं च ॥११८

ननु तद्व्यवहारसंछिदाया इह तत्केन कमित्यनेन मुक्तौ ।
श्रुतिवाक्यगतेन संमतीतेर्व्यवहर्तुर्न कथं छिदेति चेन्न ॥११९

तदिदं घटते मतेऽस्मदीये तदबोधोल्लसितत्वतोऽखिलस्य ।
तदबोधलये लयोपपत्तेर्जगतः सत्यतया छिदा न ते स्यात् ॥१२०

ननु पञ्चसु तु स्थलेषु भेदो ह्यभिदा नो तु शरीरदेहिनोस्ते ।
प्रथित स्थल पञ्चकेतरत्वात् फलिता ह्यत्र तथा च हेत्वसिद्धिः ॥ १२१

इति चेन्न विकल्पनासहत्वान्मिलितानां भिदभेदतन्त्रता किम् ।
उत वा पृथमेव तत्र नाऽऽयो मिलिताः पञ्च न हि कचिद्यतः स्युः ॥

चरमोऽपि न युज्यते तदाऽङ्गाङ्गिक भावस्य च तन्त्रता न किं स्यात् ।
न च योजकगौरवं च दोषः प्रकृते तस्य तवापि सम्मतत्वात् ॥ १२३

अपि चान्यतमस्य जातितद्वत्प्रभृतीनां घटकत्व आग्रहश्चेत् ।
अपि सोऽत्र न दुर्लभ चिदात्माङ्गकयो: कारणकार्यभावभावात् ॥ १२४

न च वाच्यमिदं परात्मजत्वात्सकलस्यापि न जीवकार्यतेति ।
तदभेदत एव सर्वकस्याप्युपपत्ते रिह जीवकार्यतायाः ॥ १२५