पृष्ठम्:शङ्करदिग्विजयः.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः १४]
143
पद्मगदतीर्थयात्रावर्णनम्

रामसेतुगमनाय संदधे मानलं मुनिरनुत्तमः पुनः ।
वर्त्मनि प्रयतमानसो व्रजन् संददर्श सरितं कवेरजाम् ॥७१

यत्पवित्रपुलिनस्थलं पयःसिन्धुवासरसिकाय विष्णवे ।
अभ्यरोचत हिरण्यवाससे पद्मनाभमुखनामशालिने ॥७२

सह्यपर्वतसुतातिनिर्मलाम्भो भिषिक्तभगवत्पदाम्बुजे ।
आकलय्य बहुशिष्यसंवृतः मास्थिताभिरुचितस्थलाय सः ॥७३

गच्छन् गच्छन् मार्गमध्येऽभियातं गेहं भिक्षुर्मातुलस्याऽऽजगाम ।
दृष्ट्वा शिष्यैस्तं चिरेणाभियातं मोदं मानन्मातुल: शास्त्रवेदी ॥७४

शुश्राव तं बन्धुजन: सशिष्य स्वमातुलागारमुपेयिवांमम् ।
आगत्य दृष्ट्वा चिरमागतं तं जहर्ष हर्षातिशयेन साश्रुः ॥७५

रुरोद कश्चिन्मुमुदेऽत्र कश्चिज्जहास पूर्वावरितं बभाषे ।
कश्चिममोदातिशयेन किञ्चिद्वचः स्खलगी: मणनाम कश्चित् ॥७३

ऊचेऽथ तं ज्ञातिजन: प्रमोदी दृष्ट्वा चिरायाक्षिपथं गतोऽभूः ।
दिवृक्षते त्वां जनताऽतिहात्तिथाऽपि शक्नोषि न वीक्षणाय ॥ ७७

पुत्राः समित्रा न न बन्धुवर्गो न राजबाधा न च चोरभीतिः ।
कृतार्थतामूलपदं यतित्वं प्रसूनवन्तं फलितं महान्तम् ॥ ७८

शाखोपशाखाञ्चितमेव वृक्षं बाघन्त आगत्य न तद्विहीनम् ।
यथा तथा वा घनिनं दरिद्रा बाघन्त आगत्य दिने दिने स्म ॥ ७९

कुटुम्बरक्षागतमानसानामायाति निद्राऽपि सुखं न जातु ।
क देवतार्चा क च तीर्थयात्रा क वा निषेत्रा महतां भवेन्नः ॥८०

अश्रौष्म संन्यासकृतं भवन्तं विपात् कुतचिगृहमागतान्नः ।
कालोऽत्यगात्ते बहुरय दैवात्तीर्थस्य हेतोगृहमागतस्त्वम् ॥ ८१

यथा शकुन्ताः परवर्धितान् हुमान समाश्रयन्ते सुखदांस्त्यजन्त्यपि ।
परमक्लृप्तान मदेवतागृहान्यतिः समाश्रित्य तथोज्जति ध्रुवम् ॥ ८२