पृष्ठम्:शङ्करदिग्विजयः.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
142
[ चतुर्दशः
श्रीमच्छङ्करदिग्विजये

तत्रैका माधीश्वरं विश्वनाथं नत्वा गम्यं स्वीयभाग्यातिशीत्या ।
देवीं घामान्तर्गतामन्तकारेहर्दि रुद्रस्येव जिज्ञासमानाम् ॥६०

कल्लालेशं द्राक्ततो नातिदूरे लक्ष्मीकान्तं संवसन्तं पुराणम् ।
कारुण्यार्द्रस्वान्तमन्तादिशून्यं दृष्ट्वा देवं संतुतोषैकभक्त्या ॥६१

पुण्डरीकपुरमाययौ मुनियंत्र नृत्यति सदाशिवोऽनिशम् ।
वीक्षते प्रकुतिरादिपा हुदा पार्वती परिणतिः शुचिस्मिता ॥६२

ताण्डवं मुनिजनोऽत्र वीक्षते दिव्यचक्षुरमलाशयोऽनिशम् ।
जन्ममृत्युभयभेदि दर्शनानेत्रमानसविनोदकारकम् ॥६३

 किंचात्र तीर्थमिति भिक्षुगणेन कश्चित्
  पृष्टोऽब्रवीच्छिवपदाम्बुजसक्तचित्तः ।
 संपार्थितः करुणयाऽस्मरदत्र गङ्गां
  देवोऽथ संन्यधित दिव्यसरि सुतीर्थम् ॥६४

शिवाज्ञयाऽभूदिति तीर्थ मेतच्छिवस्य गङ्गां प्रवदन्ति लोके ।
स्नानादमुष्यां विधुतो रूपापा: शनैः शनैस्ताण्डवमीक्षमाणाः ॥६५

शिवस्य नाट्यश्रगकर्शितस्य श्रमापनोदाय विचिन्तयन्ती ।
शिवेति गङ्गापरिणामगाऽभूत्ततोऽथवैतत्मथितं तदाख्यम् ॥६६

 नृत्यत्ती रहतस्त्वलज्जलगतेः पर्यापतद्विन्दुकं
  पार्श्वे स्वावसर्विनोदवशतो यज्जहुकन्यापयः ।
 नृत्यं तन्वति धूर्जटौ विगलितं मेङ्खज्जटामण्डला-
  तेनैतच्छिवजाह्नवीति कथयन्त्यन्ये विपश्चिज्जनाः ॥६७

स्त्रायंस्त्रायं तीर्थवर्येऽत्र नित्यं वीक्षंत्रीक्षं देवपादाब्जयुग्मम् ।
शोधंशोधं मानसं मानवोऽसौ वीक्षेतेदं ताण्डवं शुद्धचेताः ॥६८

शुद्धं महद्वर्णयितुं क्षमेत पुण्यं पुरारिः स्वयमेव तस्य ।
निमज्ज्य शम्भुकुल रित्यमुण्यां दाक्षायणीनाथमुदीक्षते यः ॥६९

इतीरितः शङ्करयोजितात्मा केनापि भिक्षुर्मुदितो जगाहे ।
तीर्थ तदात्य ननाम शम्भोरधि जितात्मा भुवनस्य गोप्तुः ॥ ७०