पृष्ठम्:शङ्करदिग्विजयः.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
132
[त्रयोदशः
श्रीमच्छङ्करदिग्विजये

आ जन्मनः संसृतिपाश मुक्तः शिष्योऽस्त्वयं विश्वगुरोस्तवैव ।
मफुल्लराजीववने विहारी कथं रमेत क्षुरके मरालः ॥३१

विज्ञाप्य तस्मिन्निति निर्गतेऽसौ तदामभृत्यत्र वसत्युदारः ।
आ शैशवादात्म विलीनचेताः कथं प्रवर्तेत महाप्रबन्धे ॥३२

श्रुत्वेति पप्रच्छुरतुं विनेया: स्वामिन् विनैव श्रवणायुपायैः ।
अलब्ध विज्ञानमयं कथं वा भवानिदं साधु विदांकरोतु ॥३३

तानब्रवीत् संयमिचक्रवर्ती कश्चित् पुरा यामुनतीरवर्ती ।
बभूव सिद्धः किल साधुवृत्तः सांसारिकेभ्यः सुतरां निवृत्तः ॥३४

तस्यान्तिके काचन विमकन्या द्विहायनं जातु निवेश्य बालम् ।
क्षणं प्रतीक्षस्त्र शिशुं द्विजेति स्नातुं सखीभिः सह निर्जगाम ॥३५

अत्रान्तरे दैववशात्स बालचक्रम्बमाणो निपपात नद्याम् ।
मृतं तमादाय शिशुं तदीयाचक्रन्दुरुच्चैः पुरतो महर्षेः ॥३६

आक्रोशमाकर्ण्य मुनिः स तेषामत्यन्त खिन्नो निजयोगभूम्ना ।
माविक्षदङ्गं पृथुकस्य तस्य स एष हस्तामलकस्तपस्त्री ॥३७

तस्मादयं वेद विनोपदेशं श्रुतीरनन्ताः सकलाः स्मृतीश्च ।
सर्वाणि शास्त्राणि परं च तत्त्वमज्ञातमेतेन न किञ्चिदस्ति ॥३८

तत्ताहगात्मा न बहि:प्रवृत्तौ नियोगमर्हत्ययमत्र वृत्तौ ।
स मण्डनस्त्वर्हति बुद्धतत्त्व : सरस्वतीसाक्षिक सर्व विचः ॥३९

तत्तादृशात्युज्ज्वल कीर्तिराशि : समस्तशास्त्रार्णवपारदर्शी ।
आसादितो धर्महितः प्रयत्नात् स चेन्न रोचेत न दृश्यतेऽन्यः ॥४०

अहं बहूनामनभीष्टकार्य न कारयिष्ये हि महानिबन्धे ।
किंचात्र संशीतिरभून्ममातो यदेककार्ये बहवः प्रतीपाः ॥४१

भवभिदेशाद्भगवन् सनन्दनः करिष्यते भाष्यनिबन्धमीप्सितम् ।
स ब्रह्मचर्यादुररीकृताश्रमो मतिमकर्षो विदितो हि सर्वतः ॥ ४२