पृष्ठम्:शङ्करदिग्विजयः.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः १३]
131
ब्रह्मविद्याविचारः

स एव युष्पच्चरणारविन्द सेवा विनिर्घृत समस्तभेदः ।
आजान सिद्धार्हति सूत्रभाष्ये वृत्तिं विधातुं भगवन्नगाधे ॥१९

यद्वाऽयमानन्द गिरिर्यदुग्र तपःप्रसन्ना परमेष्टिपत्नी
भवत्प्रबन्धेषु यथाभिसंधि व्याख्यान सामर्थ्यवरं दिदेश ॥२०

कर्मैकतानपतिरेष कथं गुरो ते विश्वासपात्रमभवन्ननु विश्वरूपः ।
भाष्यस्य पडद्यपद एव करातु टीकामित्यू चिरे रहसि योगिवरं विधेयाः ॥२१

अत्रान्तरेऽभ्यर्णगतः स तूर्ण सनन्दनो वाक्यमुदाजहार ।
आचार्य हस्तामलकोऽपि कल्पो भवत्कृतौ वार्तिकमेष कर्तुम् ॥ २२

यतः करस्थामलका विशेषं जानाति सिद्धान्तमसावशेषम् ।
अतो ह्यमुष्मै भवतैव पूर्वमदायि हस्तामलकाभिधानम् ॥२३

वार्णी समाकर्ण्य सनन्दनस्य सामिस्मितं भाष्यकृदावभाषे ।
नैपुण्यमन्यादृशमस्य किन्तु समाहितत्वान्न बहिः प्रवृत्तिः ॥२४

अयं तु बाल्ये न पपाठ पित्रा नियोजितः सादरमक्षराणि ।
न चोपनीतोऽपि गुरोः सकाशादध्यैष्ट वेदान् परमार्थनिष्ठः ॥ २५

बालैन चिक्रीड न चान्नमैच्छन्न चारुवाचं ह्यवदत् कदाऽपि ।
निचित्य सूतोपहतं तमेनमानिन्यि रेऽस्मन्निकटं कदाचित् ॥२६

अस्मानवेक्ष्येव मुहुः प्रणम्य कृताञ्जलौ तिष्ठति बालकेऽस्मिन् ।
इमामपूर्वी प्रकृति विलोक्य विसिष्मिये तत्र जनः समेतः ॥ २७

कस्त्वं शिक्षो कस्य सुतः कुतो वेत्यस्माभिराचष्ट किलैप पृष्टः ।
आत्मानमानन्दघनस्वरूपं विस्मापयन् वृत्त मयैर्वचोभिः ॥ २८

तदा कदाऽप्यश्रुतिगोचरं तदाकर्ण्य वाग्वैभवमात्मजस्य ।
पिता प्रपद्यास्य परं प्रहर्ष समश्रयां वाचमुवाच विज्ञः ॥२९

जनैर्जडत्वेन विनिश्चितोऽपि ब्रवीति यथेष परात्मतत्वम् ।
मज्ञोन्नतानामपि दुर्विभाव्यं किं वर्ण्यतेऽर्हन् भवतः प्रभावः ॥३०