पृष्ठम्:शङ्करदिग्विजयः.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ११]
117
उग्रभैरववधः

तौ संविदं वितनुतामिति संप्रहृष्टौ
योगी जगाम मुदितो निलयं मनस्वी ।
श्रीशङ्करोऽपि निजधामनि जोषमास
प्राचे न किंचिदपि भावमसौ मनोगम् ॥ २९
शूली त्रिपुण्ड्री पुरतोऽवलोकी कंकालमालाकृतगात्रभूषः ।
संरक्तनेत्रो मदघूर्णिताक्षो योगी ययौ देशिकवासभूमिम् ॥ ३०
शिष्येषु शिष्टेषु विदुग्गेषु स्नानादिकार्याय विविक्तभाजि ।
श्रीदेशिकेन्द्रे तु सनन्दनाख्यभीत्या स्वदेहं व्यवधाय गूढे ॥ ३१
तं भैरवाकारमुदीक्ष्य देशिकस्त्यक्तुं शरीरं व्यधित स्वयं मनः ।
आत्मानमात्मन्युदयुङ्क्त यो जपन् समाहितात्मा करणानि संहरन् ॥ ३२
तं भैरवोऽलोकत लोकपूज्यं स्वसौख्यतुच्छीकृतदेवराज्यम् ।
योगीशमासादितनिर्विकल्पं सनत्सुजातप्रभृतेरनल्पम् ॥ ३३
जत्रुप्रदेशे चिबुकं निधाय व्यात्ताम्यमुत्तानकरौ निधाय ।
जानूपरि प्रेक्षितनासिकान्तं विलोचने सामि निमील्य कान्तम् ॥ ३४
आसीनमुच्चीकृतपूर्वगात्रं सिद्धासनं शेषितबोधमात्रम् ।
चिन्मात्रविन्यस्तहृषीकवर्गं समाधिविस्मारितविश्वसर्गम् ॥ ३५
विलोक्य तं हन्तुमपास्तशङ्कः स्वबुद्धिपूर्वार्जिततीव्रपङ्कः ।
प्रापोद्यतासिः सविधं स यावद्विज्ञातवान् पद्मपदोऽपि तावत् ॥ ३६
त्रिशूलमुद्य निहन्तुकामं गुरुं यतात्मा समुदैक्षतान्तः ।
स्थितश्चुकोप ज्वलिताग्निकल्पः स पद्मपादः स्वगुरोर्हितैषी ॥ ३७
स्मरन्नथैष स्मरदार्तिहारि प्रह्रादवश्यं परमं महस्तत् ।
स मन्त्रसिद्धो नृहरेर्नृसिंहो भूत्वा ददर्शोग्रदुरीहचेष्टाम् ॥ ३८
स तत्क्षणक्षुब्धनिजस्वभावः प्रवृद्धरुड् विस्मृतमर्त्यभावः ।
आविष्कृतात्युग्रनृसिंहभावः समुत्पपातातुलितप्रभावः ॥ ३९