पृष्ठम्:शङ्करदिग्विजयः.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
116
[एकादशः
श्रीमच्छङ्करदिग्विजये

जनाः परक्लेशकथानभिज्ञा नक्तं दिवा स्वार्थकृतात्मचित्ताः ।
रिपुं निहन्तुं कुलिशाय वज्री दाधीचमादात्किल वाञ्छितास्थि ॥ १७
दधीचिमुख्या: क्षणिकं शरीरं त्यक्त्वा परार्थे स्म यशःशरीरम् ।
प्राप्य स्थिरं सर्वगतं जगन्ति गुणैरनर्घ्यैः किल रञ्जयन्ति ॥ १८
वपुर्धरन्ते परतुष्टिहेतोः केचित्प्रशान्ता दयया परीताः ।
अस्मादृशाः केचन सन्ति लोके स्वार्थैकनिष्ठा दयया विहीनाः ॥ १९
परोपकारं न विनाऽस्ति किंचित्प्रयोजनं ते विधुतैषणस्य ।
अस्मादृशाः कामवशास्तु युक्तायुक्ते विजानन्ति न हन्त योगिन् ॥ २०
जीमूतवाहो निजजीवदायी दधीचिरप्यस्थि मुदा ददानः ।
आचन्द्रतारार्कमपायशून्यं प्राप्तौ यशः कर्णपथं गतौ हि ॥ २१
यदप्यदेयं ननु देहवद्भिर्मयार्थितं गर्हितमेव सद्भिः ।
तथाऽपि सर्वत्र विरागवद्भिः किमस्त्यदेयं परमार्थविद्भिः ॥ २२
अखण्डमूर्धन्यकपालमाहुः संसिद्धिदं साधकपुङ्गवेभ्यः ।
विना भवन्तं बहवो न सन्ति तद्वत्पुमांसो भगवन् पृथिव्याम् ॥ २३
प्रयच्छ शीर्षं भगवन्नमः स्तादितीरयित्वा पतितं पुरस्तात् ।
तमब्रवीद्वीक्ष्य सुधीरधस्तात्कृपालुरावृत्तमनाः समस्तात् ॥ २४
नैवाभ्यसूयामि वचस्त्वदीयं प्रीत्या प्रयच्छामि शिरोऽस्मदीयम् ।
को वाऽर्थिसात्प्राज्ञतमो नृकायं जानन्न कुर्यादिहि बह्वपायम् ॥ २५
पतत्यवश्यं हि विकृष्याणं कालेन यत्नादपि रक्ष्यमाणम् ।
वर्ष्मामुना सिध्यति चेत्परार्थः स एव मर्त्यस्य पर:पुमर्थः ॥ २६
वर्ते विविक्तेऽधिसमाधि सिद्धिविन्मिथः समायाहि करोमि ते मतम् ।
नाहं प्रकाशं वितरीतुमुत्सहे शिरःकपालं विजनं समाश्रय ॥ २७
शिष्या विदन्ति यदि चिन्तितकार्यमेतत्
योगिन् मदेकशरणा विहतिं विदध्युः ।
को वा सहेत वपुरेतदपोहितुं स्वं
को वा क्षमेत निजनाथशरीरमोक्षम् ॥ २८