पृष्ठम्:शङ्करदिग्विजयः.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
108
[दशमः
श्रीमच्छङ्करदिग्विजये

नेतिनेतीत्यादिनिगमवचनेन निपुणं निषिध्य मूर्तामूर्तराशिम् ।
यदशक्यनिह्नवं स्वात्मरूपतया जानन्ति कोविदास्तत्त्वमसि तत्त्वम् ॥ ४८
खाद्यमुत्पाद्य विश्वमनुपविश्य गूढमन्नपयादिकोशतुषजाले ।
कवयो विविच्य युक्त्यवघाततो यत्तण्डुलवदाददति तत्त्वमसि तत्त्वम् ॥
विषमविषयेषु सञ्चारिणोऽक्षाश्वान् दोषदर्शनकशाभिघाततः ।
स्वैरं संनिवर्त्य स्वान्तरश्मिभिर्धीरा बध्नन्ति यत्र तत्त्वमसि तत्त्वम् ॥ ५०
व्यावृत्तजाग्रदादिष्वनुस्यूतं तेभ्योऽन्यदिव पुष्पेभ्य इव सूत्रम् ।
इति यदौपाधिकत्रयपृथक्त्वेन विदन्ति सूरयस्तत्त्वमसि तत्त्वम् ॥ ५१
पुरुष एवेदमित्यादिवेदेषु सर्वकारणतया यस्य ।
सार्वात्म्यं हाटकस्येव मुकुटादितादाम्यं सरसमाम्नायते तत्त्वमसि तत्त्वम् ॥
यश्चाहमत्र वर्ष्मणि भामि सोऽसौ योऽसौ विभाति रविमण्डले सोऽहमिति ।
वेदवादिनो व्यतिहारतो यदध्यापयन्ति यत्नतस्तत्त्वमसि तत्त्वम् ॥ ५३
वेदानुवचनसद्दानमुखधर्मैः श्रद्धयाऽनुष्ठितैर्विद्यया युक्तैः ।
विविदषन्त्यत्यन्तविमलस्वान्ता ब्राह्मणा यद्ब्रह्म तत्त्वमसि तत्त्वम् ॥ ५४
शमदमोपरमादिसाधनैर्धीराः स्वात्मनाऽऽत्मनि यदन्विष्य कृतकृत्याः ।
अधिगतामितसच्चिदानन्दरूपा न पुनरिह खिद्यन्ते तत्त्वमसि तत्त्वम् ॥
अविगीतमेवं नरपतिराकर्ण्य वर्णितात्मार्थम् ।
विससर्ज पूरिताशानेतान्निर्ज्ञातकर्तव्यः ॥ ५६
उद्बोधितः सदसि तैरवलम्ब्य मूर्च्छां निर्गत्य राजतनुतो निजमाविवेश ।
गात्रं पुरोदितनयेन स देशिकेन्द्रः संज्ञामवाप्य च पुरेव समुत्थितोऽभूत् ॥
तदेनु कुहरमेत्य पूर्वदृष्टं नरपतिभृत्यविसृष्टपावकेन ।
निजवपुरवलोक्य दह्यमानं झटिति स योगधुरन्धरो विवेश ॥ ५८
सपदि दहनशान्तये महान्तं नरमृगरूपमधोक्षजं शरण्यम् ।
स्तुतिभिरधिकलालसत्पदाभिस्त्वरितमतोषयदात्मवित्प्रधानः ॥ ५९