पृष्ठम्:शङ्करदिग्विजयः.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः १०]
107
राजदेहप्रवेशादिकथनम्

तदिहाऽऽलस्यमपास्य विचेतुं निरवधिसंसृतिजलधेः सेतुम् ।
देशिकवरपदकमलं यामो न वृथाऽनेहसमत्र नयामः ॥ ३६
इति जलरुहपदवचनं सर्वे मनसि निधाय निराकृतगर्वे ।
कांश्चित्तत्र निवेश्य शरीरं रक्षितुमन्ये निरगुरुदारम् ॥ ३७
ते चिन्वन्तः शैलाच्छैलं विषयाद्विषयं भुवमनुवेलम् ।
प्रापुर्धिक्कृतविबुधनिवेशान् स्फीतानमरुकनृपतेर्देशान् ॥ ३८
मृत्वा पुनरप्युत्थितमेनं श्रुत्वा वैन्यदिलीपसमानम् ।
त्यक्त्वा विरहजदैन्यममन्दं मत्वाऽऽचार्यं धैर्यमविन्दन् ॥ ३९
ते च ज्ञात्वा गानविलोलं तरुणीसक्तं धरणीपालम् ।
विविशुः स्वीकृतगायकवेषा नगरं विदितसमस्तविशेषाः ॥ ४०
राज्ञे ज्ञापितविद्यातिशयास्ते तत्संग्रहविधृतातिशयाः ।
रमणीशतमध्यगमवनीन्द्रं ददृशुस्तारावृतमित्र चन्द्रम् ॥ ४१
वरचामरकरतरुणीकङ्कणरञ्जितमनोहरपश्चाद्भागम् ।
गीतिगतिज्ञोद्गीतश्रुतिसुखतानसमुल्लदग्रिमदेशम् ॥ ४२
धृतचामीकरदण्डसितातपवारणरञ्जितरत्नकिरीटम् ।
श्रितविग्रहमिव रतिपतिमाश्रितभुवमिव सान्तःपुरममरेशम् ॥ ४३
रुचिरवेषाः समासाद्य तां संसदं नयनसंज्ञावितीर्णासना भूभुजा ।
समतिसृष्टास्ततः सुस्वरं मूर्च्छनापदविदस्ते जगुर्मोहयन्तः सभाम् ॥ ४४
भृङ्ग तव सङ्गतिमपास्य गिरिशृङ्गे तुङ्गविटपिनि सङ्गमजुषि त्वदङ्गे ।
स्वाङ्गरचिताः सकलुषान्तरङ्गाः संगमकृते भङ्गमुपयन्ति भृङ्गाः ॥ ४५
पञ्चशरसमयसञ्चयकृते प्राञ्चं मुञ्चन्निवेह सञ्चरसि प्रपञ्चम् ।
पञ्चजनमुख पञ्चमुखमप्यनञ्चंस्त्वं च गतिरिति किंच किल वञ्चितोऽसौ ॥
पर्वशशिमुख सर्वमपहाय पूर्वं कुर्वदिह गर्वमनुसृत्य हृदपूर्वम् ।
न स्मरसि वस्त्वस्मदीयमिति कस्मात्संस्मर तदस्मर परमस्मदुक्त्या ॥