पृष्ठम्:शङ्करदिग्विजयः.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
104
[दशमः
श्रीमच्छङ्करदिग्विजये

वसु ददाति ययातिवदर्थिने वदति गीष्पतिवद्गिरमर्थवित् ।
जयति फाल्गुनवत्प्रतिपार्थिवान् सकलमप्यवगच्छति शर्ववत् ॥ ५
अनुसवनविसृत्वरैरपूर्वैर्वितरणपौरुषशौर्यधैर्यपूर्वैः ।
अनितरसुलभैर्गुणैविभाति क्षितिपतिरेष परः पुमानिवाद्यः ॥ ६
अनृतुषु तरवः सुपुष्पिताग्रा बहुतरदुग्धदुघाश्च गोमहिष्यः ।
क्षितिरभिमतवृष्टिराढ्यसस्या स्वविहितधर्मरताः प्रजाश्च सर्वाः ॥ ७
कालस्तिष्यः सर्वदोषाकरोऽपि त्नेतामत्येत्यद्य राज्ञः प्रभावात् ।
तस्मादस्मद्राजवर्ष्म प्रविश्य प्राप्तैश्वर्यः शास्ति कश्चिद्धरित्रीम् ॥ ८
तदयं गुणवारिधिर्यथा प्रतिपद्येत न पूर्वकं वपुः ।
करवाम तथेति निश्चयं कृतवन्तः सचिवाः परस्परम् ॥ ९
अथ ते भुवि यस्य कस्यचिद्विगतासोर्वपुरस्ति देहिनः ।
अविचार्य तदाशु दह्यतामिति भृत्यान् रहसि न्ययोजयन् ॥ १०
अथ राज्यधुरं धराधिपः परमाप्तेषु निवेश्य मन्त्रिषु ।
बुभुजे विषयान् विलासिनीसचिवोऽन्यक्षितिपालदुर्लभान् ॥ ११
स्फटिकफलके ज्योत्स्नाशुभ्रे मनोज्ञशिरोगृहे
वरयुवतिभिर्दीव्यन्नक्षैर्दुरोदरकेलिषु ।
अधरदशनं बाह्वावाहं महोत्पलताडनं
रतिविनिमयं राजाऽकार्षीद्ग्लहं विजये मिथः ॥ १२
अधरजसुधाश्लेषाद्रुच्यं सुगन्धि मुखानिल-
व्यतिकरवशात्कामं कान्ताकरात्तमतिप्रियम् ।
मधु मदकरं पायंपाय प्रियाः समपायय-
त्कनकचषकैरिन्दुच्छायापरिष्कृतमादरात् ॥ १३
मधुमदकलं मन्दस्विन्नं मनोहरभाषणं
निभृतपुलकं सीत्काराढ्यं सरोरुहसौरभम् ।
दरमुकुलिताक्षीषल्लज्जं विसृत्वरमन्मथं
प्रचरदलकं कान्तावक्त्रं निपीय कृती नृपः ॥ १४