पृष्ठम्:शङ्करदिग्विजयः.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ९]
103
राजदेहप्रवेशादिकथनम्

राजदेहप्रवेषादिकथनम्

अङ्गुष्ठमारभ्य समीरणं नयन् करन्ध्रमार्गाद्बहिरेत्य योगवित् ।
करन्ध्रमार्गेण शनैः प्रविष्टवान् मृतस्य यावच्चरणाग्रमेकधीः ॥ १०५
गात्रं गतासोर्वसुधाधिपस्य शनैः समास्पन्दत हृत्पदेशे ।
तथोदमीलन्नयनं क्रमेण तथोदतिष्ठत्स यथापुरैव ॥ १०६
आदौ तदङ्गमुदयन्मुखकान्ति पश्चान्नासान्तनिर्यदनिलं शनकैः परस्तात् ।
उन्मीलदंघ्रिचलनं तदनूद्यदक्षिव्याकोचमुत्थितमुपात्तबलं क्रमेण ॥ १०७
तं प्राप्तजीवमुपलभ्य पतिं प्रभूतहर्षस्वनाः प्रमुदिताननपङ्कजास्ताः ।
नार्यो विरेजुररुणोदयसंप्रफुल्लपद्माः ससारसरवा इव वारिजिन्यः ॥ १०८
हर्षं तासामुदितमतुलं वीक्ष्य वामेक्षणाना-
मात्तप्राणं नृपमपि महामात्यमुख्याः प्रहृष्टाः ।
दध्मुः शङ्खान् पणवपटहान् दुन्दुभीश्चाभिजघ्नु-
स्तेषां घोषाः सपदि बधिरीचक्रिरे द्यां भुवं च ॥ १०९
इति श्रीमाधवीये तत्सार्वज्ञोपायगोचरः ।
संक्षेपशङ्करजये सर्गोऽयं नवमोऽभवत् ॥ ९ ॥

आदितः श्लोकाः 1029

अथ दशमः सर्गः ॥ १० ॥

राजदेहप्रवेशादिकथनम् ॥

अथ पुरोहितमन्त्रिपुरःसरैर्नरपतिः कृतशान्तिककर्मभिः ।
विहितमाङ्गलिकः स यथोचितं नगरमास्थितभद्रगजो ययौ ॥ १
समधिगम्य पुरं परिसान्त्वितप्रियजन: सचिवैः सह सम्प्रतैः ।
भुवमपालयदादृतशासनो नृपतिभिर्दिवमिन्द्र इवाधिराट् ॥ २
इति नृपत्वमुपेत्य वसुन्धरामवति संयमिभूभृति मन्त्रिणः ।
तमधिकृत्य परं कृतसंशया इति जजल्पुरनल्पधियो मिथः ॥ ३
मृतिमुपेत्य यथा पुनरुत्थितः प्रकृतिभाग्यवशेन तथा त्वयम् ।
नरपतिः प्रतिभाति न पूर्ववत्समुदिताखिलदिव्यगुणोदयः ॥