पृष्ठम्:शङ्करदिग्विजयः.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
96
[नवमः
श्रीमच्छङ्करदिग्विजये

अविद्याराक्षस्या गिलितपखिलेशं परगुरो
पिचण्डं भित्वास्याः सरभसममुष्मादुदहरः ।
वृतां पश्यन् रक्षोयुवतिभिरमुष्य प्रियतमां
हनूमांल्लोकेड्यस्तव तु कियती स्यान्महितता ॥ २८

जगदार्तिहन्ननवगम्य पुरा महिमानमीदृशमचिन्त्यमहम् ।
तव यत्पुरोऽव्रवमसाम्प्रतमप्यखिलं क्षमस्व करुणाजलधे ॥ २९

कपिलाक्षपादकणभुक्ममुखा अपि मोहमीयुरमितपतिभाः।
श्रुतिभावनिर्णयविधावितरः प्रभवेत्कथं परशिवांशमृते ॥ ३०

समेतैरेतैः किं कपिलकणभुग्गौतमवच-
स्तमस्तोमैश्वेतोमलिनिमसमारम्भणचणैः ।
सुधाधारोद्गारप्रचुरभगवत्पादवदन-
प्ररोहद्व्याहारामृतकिरणपुञ्जे विजयिनि ॥ ३१

भिन्दानैर्देवमेतैरभिनवयवनैः सद्गवीभञ्जनोकै-
र्व्याप्ता सर्वेयमुर्वी क्व जगति भजतां कैव मुक्तिप्रसक्तिः ।
यद्वा सद्वादिराजा विजितकलिमला विष्णुतत्वानुरक्ता
उज्जम्भन्ते समन्ताद्दिशि दिशि कृतिनः किं तया चिन्तया मे ॥ ३२

कथमल्पबुद्धिविवृतिपचयप्रबलोरगक्षतिहताः श्रुतयः ।
न यदि त्वदुक्त्यमृतसेकधृता विहरेयुरात्मविधृतानुशयाः ॥ ३३

भवदुक्तसूक्त्यमृतभानुकरा न चरेयुरार्य यदि कः शमयेत् ।
अतितीव्रदुःसहभवोष्णकरमचुरातपप्रभवतापमिमम् ॥
३४

बत कर्मयन्त्रमधिरुह्य तप:श्रुतगेहदारसुतभृत्यधनैः ।
अतिरूढमानभरितः पतितो भवतोध्दृतोऽस्मि भवकूपबिलात् ।। ३५

अहमचरं बहुतपोऽसुकरं ननु पूर्वजन्मसु न चेदधुना ।
जगदीश्वरेण करुणानिधिना भवता कथा मम कथं घटते ।।