न ममैव वेद हृदयं यमिराडपि तु श्रुतेः सकलशास्त्रततेः ।
यदभूद्भविष्यति भवत्तदपि ह्ययमेव वेद न तथा त्वितरः ॥
गुरुणा चिदेकरसतत्परता निरणायि हि श्रुतिशिरोवचसाम् ।
कथमेकमूत्रपपि तद्विमतं कथयाम्यहं तदुपसादितधीः ॥
अलमाकलय्य विशयं सुयशः शृणु मे रहस्यमिममेव परम् ।
त्वमवेहि संमृतिनिमग्नजनोत्तरणे गृहीतवपुषं पुरुषम् ॥
आद्ये सत्वमुनिः सतां वितरति ज्ञानं द्वितीये युगे
दत्तो द्वापरनामके तु सुमतिर्व्या॑सः कलौ शङ्करः ।
इत्येवं स्फुटपीरतोऽस्य महिमा शैवे पुराणे यत-
स्तस्य त्वं सुमते मते त्ववतरेः संसारवार्धि तरेः ॥
इति बोधितद्विजवरोऽन्तरधान्मनसोपगुह्य यमिनामृषभम् ।
स च यायजूकपरिषत्प्रमुखः प्रणिपत्य शङ्करमवोचदिदम् ।।
विदितोऽस्ति संप्रति भवाञ्जगतः प्रकृतिर्निरस्तसमतातिशयः ।
अवबोधमात्रवपुरप्यबुधोद्धरणाय केवलमुपात्ततनुः ||
यदेकमुदितं पदं यतिवर त्रयीमस्तकै-
स्तदस्य परिपालकस्त्वमसि तत्त्वमस्यायुधः ।
परं गलितसौगतप्रलपितान्धकूपान्तरे
पतत्कथमिवान्यथा प्रलयमद्य नापत्स्यते ॥
प्रबुद्धोऽहं स्वप्नादिति कृतमतिः स्वप्नमपरं
यथा मूढः स्वप्ने कलयति तथा मोहवशगाः।
विमुक्तिं मन्यन्ते कतिचिदिह लोकान्तरगतिं
हसन्त्येतान् दासास्तव गलितमायाः परगुरोः ।
मुहुर्धिविग्मेदिप्रलपितविमुक्तिं यदुदयेऽप्य-
सारः संसारो विरमति न कर्तृत्वमुखरः।
भृशं विद्वन्मोदे स्थिरतमविमुक्ति त्वदुदितां
भवातीता येयं निरवधिचिदानन्दलहरी ॥