पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यक्तिविवेकव्याख्याने प्रथमो विमर्शः। शव्यापारो वाभिधा । न च तत्प्रकारत्वमलक्काराणां युक्तिमत् । चारुत्व हि वैचित्र्यापरपर्याय प्रका- शमानमलकार । न च शब्दोच्चारणस्यार्थप्रकाशनस्य वा चारुत्व प्रकाशते, उच्चार्यमाणस्य च प्रति- पाद्यमानस्य च चारुत्वप्रतीते । तेन चारुत्वमलङ्कार इत्युच्यमाने शब्दार्थगतत्वेनैव चारुत्वस्य स- दावाच्छब्दार्थधर्मा एवालकारा न्याय्या , नाभिवाधर्माः । शास्त्रेतिहासवैलक्षण्य तु काव्यस्य शब्दा- र्थवैशिष्टयादेव नाभिधावैशिष्ट्यादिति भट्टोद्भटादीना सिद्धान्त । ततश्च तन्मताश्रयणेन शब्दार्थयो- य॑जकत्वमच्यमान तद्धर्माणामलङ्काराणामपि पर्यवसितमिति तत्स्वीकारार्थ पृथगभिधानग्रहणे न किञ्चित् । यदपि दीपकादात्रुपमादि प्रत्यतत्परत्व दूषित, तदस्मदभिप्रायापयर्यालोचनादेव, यत प्रागु- कन्यायान प्रतीत्युपायत्वमचारूत्व वा तत्परत्व, यत्प्रतिपक्षभूतमतत्परत्वमस्माभिरत्रोक्तम्। अपितु प्रत्याय्येनानुपकार्यत्वम्।न चैतद् दीपकादावस्ति, तत्रोपमादिना दीपकादेरुपकार्यत्वाद् । अत एव प्रा- धान्यादुरमादिव्यपदेश मुक्त्वा तत्र दीप कादिव्यपदेश एव कृत । ततश्चात्रातत्परत्वमेव साधीय इति । [३] सर्व एवेति । इह य कश्चिच्छाब्दो व्यवहार स सर्व परप्रवृत्तिनिवृत्त्यर्थ., स्वप्रवृत्तिनिवृत्योः शान्दव्यवहारमन्तरेण वचनमात्रादेव सिद्धत्वात् । प्रवृत्तिनिवृत्तीच सम्प्रत्ययासम्प्रत्ययौ युक्तिरूपा- नुमाननिमित्तौ तेन विना निर्निबन्धने, अन्यथा सशङ्कत्वे प्रवृत्तिनिवृत्योरप्रवृत्तिनिवृत्तिकल्पत्वात् । सम्प्रत्ययासम्प्रत्ययौ च युक्तिरूपानुमाननिमितौ, तेन विना निर्निबन्धनत्वाच्छाब्दव्यवहारे वचनमा- त्रात् तयोरनुपपत्ते । अनुमान च साच्यसाधनभावगीकारेण व्यवस्थितम् । तच्च परप्रवृत्तिनिवृत्ति- फलम् । शाब्दव्यवहारमाश्रयता तत्र साध्यसाधनभावोऽवश्यमहीकार्य । स चाखण्डत्वात् पदमात्रे न सम्भवतीति पदसमूहात्मक वाक्यमवलम्बते । सम्प्रत्ययासम्प्रत्ययात्मानौ निमित्तस्वेन व्यापकत्वात् । सत्वप्रयानानीति सत्त्व सिद्ध वस्तु । यदृच्छाशब्दा जातिशब्दाश्च । एव द्विविधा आतिरर्थजातिरर्थस्वरूपजातिश्च । तदुक्तम् - "स्वा जाति प्रथम शब्दै. सर्वैरेव प्रकाश्यते । । ततोऽर्थजातिरूपण तदध्यारोपकल्पना ॥" इति । तत्र यदृच्छाशब्दाना जातिशब्दत्वम् । यदि वा डित्यादिषु बाल्याद्यवस्थाभेदाद् भिनेवभिना- भिधानप्रत्ययनिबन्धन जातिः। तद्वशाद्यदृच्छा(शब्दाना जाति)शब्दत्वम् । ये तु द्रव्यसम्बन्धादर्था- न्तरे वर्तन्ते ते द्रव्यशब्दा दण्ड्यादय । वैयाकरणानां तु गुणशब्दा एवमादय दण्डादेर्बहिरङ्गत्वा- दिति । अस्य ग्रन्थस्य सङ्ग्रहकारिकयान्यग्रन्थेन सह विरोधो दृश्यते। तथा हि। अत्र सामान्यभूता- या भवनक्रियाया बहिरङ्गत्व विशेषक्रियाणामन्तरङ्गत्वमुक्तम् । तत्र विशेषक्रियाणां बहिरजत्व सामा- न्यक्रियायास्त्वन्तरङ्गत्व प्रतिपादयिष्यते । स एष एको विरोध । किञ्चह गम्यमानाकया मुक्त्वा प्रयु- ज्यमानक्रियापेक्षमेव पौर्वकाल्यमित्युच्यते।'यन्मेऽल्पमपि तद्बहु' इत्यत्र प्रतीयमानक्रियापेक्ष पौर्व- काल्यं वक्ष्यत इति द्वितीयो प्रन्थविरोध । नैष विरोध । इह तावत् सामान्यक्रियाया बहिरङ्गत्वम- प्रयुज्यमानत्वापेक्षयोच्यते, विशेषक्रियाणान्त्वन्तरङ्गत्व प्रयुज्यमानत्वापेक्षया, तत्र पुनर्विशेषक्रियाणां बहिरङ्गत्वं व्यभिचारित्वात् , सामान्याक्रयायास्त्वन्तरङ्गत्वमव्याभिचारित्वादित्यपेक्षातो भेदादायस्ता- वन विरोध । सामान्यक्रिया ह्यव्यभिचारिणों प्रतीयमानामपेक्ष्य पौर्वकाल्य समर्थित विशेषस्यापेक्ष्य- त्वेन प्रतीते. समन्वयाविरोधाच्च । तेन द्वितीयोऽप्यत्र न विरोध इति । अत एव 'प्रायेणे'त्युक्तम् । [४]घटत्यादेरिति । 'इक्शतिपौ धातुनिर्देशे' इति रूपम् । पक्षान्तर प्रकारान्तरेण क्रियाशब्दत्वात् । एकेषाम् उपाधिवादिनाम् । एकार्थसमवायादिति एकत्र द्रव्ये गमनक्रियागोजात्यो समवा- यात् । तदपेक्षमेव चेति घटनादिकियापेक्षम् । तावतेति प्रतीतिमात्रेय । तदपेक्षं सत्तापेक्षम् ।