पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यक्तिविवेकव्याख्याने प्रथमो विमर्शः । तत् पौर्वकाल्यम् । तत्पूर्वकालत्वाभावादिति । अव्यभिचरितप्रतीयमानभवनक्रियापूर्वकाल- त्वाभावादित्यर्थ । अत्र त्विति प्रयुज्यमानक्रियापेक्षे पौर्वकाल्ये । उभयत्रापीति । घट इति भवतीति व योरपि यथाक्रम गुणप्रधानक्रियावाचिनो., कर्तरि अचस्तिपश्चोत्पत्ते । कर्तुरुपा- धिभावमिति अप्राधान्यात् कर्तार प्रति विशेषणभाव प्रापिता तेन तस्या निमनत्वात् तदपेक्ष- पौर्वकाल्याभावभ्रम । कर्ता च द्विविघ - शुद्ध क्रियान्तरापेक्षयानुभूतकारकान्तरसम्बन्धश्च । आद्यो यथा विपच्येत्यादौ । द्वितीयो यथा 'या दृष्ट्वे' त्यादौ । [५]विषयविषायभावेति । भयपक्ष- पतनक्रियाद्वयापेक्ष निरीक्षणस्य पौर्वकाल्यम् । मृत्युरेव हि निरीक्षते बिभेति पक्षे च पतति । केवल पक्षपतनापेक्षया भयक्रियाया एव विषयत्वम् । स्मरेति अह सस्मृत्य न शाम्यामीत्यर्थः । ननु सर्व पवेति । सर्व गुणसमवेक्षितुलॊकस्य कर्तुं स एव कर्मभूतः पूज्यतामेतीत्यर्थ. । सर्वो गुण- समवेक्षिता लोक पूज्यो भवतीत्यर्थ । + विशेषणसम्बन्धश्चेति यत् स्वल्प लाभक्रियाविष- यस्तद्बहुत्वेन विशेष्यते । कर्तुरुपाधितयेति अत्र शान्त्यादिक्रियाया कर्तृसम्बन्धित्वेनोपादान- मपि सड्ग्रहीतव्यम् । पौर्वापर्य क्रियाणामिति । इह विविध क्रियाणा पौर्वापर्य शाब्द वास्तव च। तत्र शाब्दं प्रायेणाख्यातशब्दवाच्यया प्रवानक्रियया सह गुणक्रियाणा, तासा तया सह गुण- प्रधानभावेन सम्बन्धस्योचितत्वात् , 'गुणाना च परार्थत्वादसम्बन्ध. समत्वात् स्यादिति न्यायेन गुणक्रियाणा परस्पर सम्बन्धाभावाच । वास्तव तु यद्रस्तुबलप्रवृत्त, तद् गुणक्रियाणामपि सम्भ- वत्येव । आपेक्षिकस्य गुणप्राधान्यस्य तास्वपि भावात् सम्बन्धोपपत्ति , यथा पश्य मृगो धाव- तीति प्रधानक्रिययो. । एवञ्च गुणक्रियागतवास्तवपौर्वापर्याश्रयण क्त्वाप्रत्ययस्य प्रयुज्यमानत्वात् शाब्दप्राधान्येतरभावो न प्रयोजक । अस्य न्यायस्यात्रापीत्थमेव स्थितिरिति बहुतरलक्ष्यसिद्धि । घटतीत्यादि घटत्वमापद्यते । घटतीति प्रातिपदिकाद्वक्ष्यमाणक्रमेण क्विपि परस्मैपदम् । एव नाघटनिति शतृप्रत्ययः । इह हि घटादय' शब्दा स्वविषये प्रवर्त्तमाना प्रवृत्तिनिमित्त किश्चिद- वलम्ब्य प्रवर्तन्ते । तच्च तेषा प्रवृत्तिनिमित्तमाश्रयणीय यत् पदार्थस्य स्वरूपीभूतम् । न हि पर- भूतेन घटत्वसामान्यादिना परत्र व्यपदेशो न्याय्य , परत्वाविशेषे सर्वत्र सर्वे व्यपदेशा स्यु ।न हे स्वयमप्रकाशमानस्वभावो घट: प्रकाशत इति व्यपदिश्यते । स्वयमश्वेतस्वभावो वा प्रासादः श्वेत इति । एवञ्च स्वरूपेण घटत्वेन घटो घट इति व्यपदिश्यते । स्वरूपभूत च घटत्व साध्य- खेन प्रतीतेर्घटत्वापत्तिलक्षणा क्रियोच्यते । सैव च घटना घटात्मताल्पा । तस्यां च सरन्तु ? तो) नाममात्रात् क्विबादयः कार्याः । आदिग्रहणेन क्यच्चयझै गृह्यते । विपि कृते कर्तर्युत्पन्नस्याच्य- त्ययादेरार्धधातुकस्य लोप कर्त्तव्य । सर्वत्रोपमानप्रतीतिरन्यस्यान्यरूपापत्तेरौपम्यप्राणत्वात् । पुत्री- यति च्छात्र हंसायते काक इत्यादौ हि च्छात्रकाकयोः क्रमेण पुत्रत्वहसत्वापत्तिः सादृश्यपर्यव- सायिन्येव प्रतीयते । ततश्च प्रतीत्यनुगुणत्वेन लक्ष्यसिद्ध्यर्थमन्यथा लक्षण प्रणेतव्यम् । प्रसिद्धलक्ष्यसिद्ध्यर्थ लक्षण तच्च भिद्यते । अभियोगस्य वैशिष्टयात् तत्कृत तच्च गृह्यते ॥२॥ इत्यन्तरश्लोकः । यभा हे भवत्यादिशब्द लीट तिपि शपि च केचिदाचक्षते । अन्ये तु (श्ति?)ति + इद प्रतीक मूलव्यक्तिविवेक)कोशयो!पलभ्यते । किन्तु इद 'अकृत्वा परसन्तापमिति श्लो- कोपपादकवाक्ये “अत्र हि प्रकरणादिगम्याया लाभक्रियाया अनुपादान करणादीनां भिन्नकर्तृक- त्वम्रमहेतुः" इत्यत्र 'अनुपादानम्' इति पदानन्तर निवेश्य स्यात् ।