पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिपाद्यसंक्षेपश्च क्रियते श्रौत आर्थश्च प्रथमश्चोकेन । स्वपक्षे च प्रतिपाद्यमुपायोपेय त्मकम् । । तत्र सिद्धवस्तुस्वरूपमुपेयम्, चतुथ्र्यन्तैः पदैस्सूच्यते । नमश्शब्देन उपायस्सूत्थते । तत्र उपयस्य ब्रह्मण उभयविभूतिविशिष्टत्वं' पूर्वीधेनोच्यते । निर्मलेल्यादिपदेन उभयलिङ्गत्वमुच्यते । तत्र विप्रतिपत्तिविषयस्य तत्वमस्यादि वाक्यस्यार्थनिष्कर्षमुग्वन लीलाविभूतिविशिष्टत्वमुच्यते अशेषचिदचिद्वस्तुशेषिण इति प्रथमपदेन । जगद्रह्मणोस्सामानाधिकरम्यं शरीरशरीरिभावनिबन्धनम् । शरीरत्वं च वेतनं प्रत्यनन्याशेषत्वम् । एवं सामानाधिकरण्यस्य शरीरशरीरभाव निबन्धनत्वे सति हि भेदश्रुतिभिर्धटकश्रुतिभिश्चास्य वाक्यस्याविरोधः । अशेषपदं चेतनबहुत्वं दर्शयाते । कतिपयचेतननियन्तृव्यावृतिश्चानेन सिध्यति । वस्तुशब्देन परमार्थत्वं विवक्षितम् । अशेषवस्तुशेषिण इत्येतावताऽलम् , किमर्थं चिदविच्छब्द पयोग इति चेत्, उच्यते यादवप्रकाशमते सर्वमपि चेतनमेव, तन्न घटादेश्चैतन्यानभिव्यक्तिमत्रमेवेति न चिदचिद्विभाग इति, तच्यावृत्तिश्चिदचिच्छब्दाभ्याम् । किञ्च शारमते जीव ब्रह्मणोस्सामानाधिकरण्थे स्वरूपैक्यनिबन्धनम्, अचिब्रह्मणोस्तु बाधार्थम्, इति सामा नाधिकरण्यस्य नैकरूपोऽर्थ इति तद्वयावृत्तिश्चाभिप्रेता । विश्व भास्करमते जीवब्रह्मणेोमदश्रुतय औपाधिकभेदविषयः, अचिद्रह्मणेोभेदश्रुतयः स्वाभाविकभेद विषया इति भदश्रत्यथों नैकरूपोऽभ्युपगत इति तच्यावृत्तिश्चाभिप्रेता । निश्शेषेत्यपि वक्तलये अकारस्य मङ्गलार्थत्वादशेषेत्युक्तम् । एवं लीलाविभूतिविशिष्टत्वमुक्तं मवति । नित्यविभूतियंगमाह शेषशायिन इति । शेषशध्दः पीपरिजनादे प्रदर्शनार्थः । तान्छीलयार्थप्रत्ययान्तत्वात्, भोगविभूतिसम्बन्धस्य स्वाभाविकतया नित्यत्वमभिप्रेतम् । एवमूभयविभूतिविशिष्टत्क्क्त म् । १. वेशिष्टयम्-पा० वेदार्थसंप्रहः ३. अपिः केषुचित श्रीकोशेषु नास्ति ।