पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुण्डरीकमध्यस्थाकाशवर्तितया उपास्यत्वमुक्तम् । अयमर्थः:- * सर्वस्य वेदज्जातस्य प्रकृतिः प्रणव उक्तः । प्रणवस्य 'च प्रकृतिः अकारः । प्रणवविकारो वेदः, स्वग्रकृतिभूते प्रणवे लीनः । प्रणवोऽपि ' अकारविकारभूतः, स्वप्रकृतों अकारे लीनः । तस्य प्रणव प्रकृतिभूतस्य' अकारस्य यः परः-वच्यः, स एव महेश्वरः ’ इति सर्ववाचकजातप्रकृतिभूत-अकारवाच्यः, सर्ववाच्यजातप्रकृतिभूत'नारा यणो यः, सः महेश्वरः – इत्यर्थः । तत्रापि नारायणस्यैव महेश्वरत्वप्रतिपादनात्, स एव दहरपुण्डरीकेऽपि उपास्यः इत्यर्थः । अस्मिन् वाक्ये प्रणववेदयोः, अकारप्रणवयोश्च प्रकृतिवेिकृतिभावः कथमव गतः ? अकारप्रमङ्गश्च कः ? तद्वाच्यत्वपरः शब्दः कः ? इत्यपेक्षायामाह अयमर्थः इति । “यद्वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ?' इत्यनेनैव प्रकृति विकृतिभावः सिद्ध ; ***

प्रकृतिलीनस्य । इत्यनेन अकारश्च अवगत ; “यः

परः " इति परशब्देन वाच्यत्वं च अवगतम् : * इदं परस्तात् परः' इत्यादिषु परशब्दस्य वाच्यतार्थत्वात् इत्यर्थः । तर्हि * अकारस्य परः इति वक्तव्यम्; “ प्रकृति लीनस्य ? इति वचनव्यक्तः कोऽभिप्रायः ! अकारवाच्यस्यैव ' महेश्वरत्वे, कथं नारायणस्य परत्वसिद्धिः ? इत्यत्राह सर्ववाचक इति । वाच्यजातप्रकृतिभूत , 1. पुण्डरीकाकश-या. २. आकाशान्तर्वर्तितया-पा. ३. उक्तः – इचिदेतन्न दृश्यते । ४. च: कुत्रचिन्न | ५. अपिः कवि नोपलभ्यते । ६, तस्य च-पा० ७. भूताकारस्य-पा० ८, एक्कारः कचिन्न दृश्यते । वेदार्थसंग्रह ३०. भूतो नारायणः-पा ११. एषकारः कुत्रचिन्न लभ्यते । 1, 2, तै, उ. ना. १२.३.