पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेदार्थसंग्रहः परं ब्रहवाई भ्रमपरिगतं संसरति तत् परोपाध्यालीढं विवशमशुभस्यास्पदमिति अथ द्वितीयेन गुरूपासनपमङ्गलाचारः श्रौतः क्रियते । आर्थः प्रतिपाद्य परपक्षनिराससंक्षेपश्च क्रियते । तत्र पूर्वाधेन परपक्षोपन्याससंक्षेपः । उत्तरार्धेन तन्निराससंक्षेषः । परं ब्रवेत्यादि । परम् – हेयप्रत्यनीकत्वकल्याण गुणाकरत्वाभ्यां सविलक्षणम् । एवकारः विरोधं स्फोरयति। संश्रितदुरितापहरत्वेन तदिष्टफलप्रदत्वेन च यदाश्रयणीयम्, तदेवाज्ञानादिपरवशं चेत् कोऽन्यो रक्षक इति भावः । अज्ञम्- अविद्यातिरोहितस्वरूपम् । अत एव भ्रमपरिगतम्---विविधभेद दर्शनशालि । संसरति – भेददर्शनकृतजन्मजरामरणादिसांसारिकदुःखभागोत्यर्थः। अथ भास्करममुपन्यस्यते तत् परोपाध्यालीढमिति । परशब्देन, उपाध्यन्तनिरपेक्षं स्वत एव प्रस्तुतब्रह्मव्यातरिक्तत्वमुच्यते । पराभ्युपगतमिथ्या भूताविद्यान्यत्वं च विवक्षितम् । आलीढम्-सम्बद्धम् । विवशः-कर्मपरवशम् । अथ यादवप्रकाशमतम् । अशुभस्यास्पदमिति । अचिद्वतपरिणामर्हता रूपाशुभस्य, चिढ़तापुरुषार्थयोग्यता'रूपाशुभस्य च आस्पदमित्यर्थः । जीवब्रह्मणो भेदस्य स्वाभाविकत्वाभ्युपगमान्न ब्रह्मण्यपुरुषार्थान्वय इति वैषम्यं दुचम्; अभेदस्यापि स्वाभाविकत्वोपगमेनापुरुषार्थान्वयादिति भावः । “ अचिद्रह्मणीभेदाभेदौ स्वाभाविक , चिंद्रह्मणोस्वदस्वाभाविकः, भेदस्वौपाधिकः, मुक्तावभेदवचनात्' इति भास्करमतम् ; “चिद्रह्मणोरपि भेदाभेदौ स्वाभाविकौ, मुक्तौ भेदस्यापि निर्देशात्” इति यादवकाशमतम् तस्मात् उक्त एवाथेः । तत्र अशुभस्यास्पदमिति न यादवप्रकाशमतीपन्यासः । परं ब्रहेत्यादिपदेन शङ्करमतोपन्यासः, तत् परोपाध्यालीढमित्यादिपदेन भास्करमतोपन्यासः, इतरत्वर्थ सिद्धमिति केचित् । तदानीम् अशुभस्यास्पदमिति अचिद्वताशुभास्पदत्वमुच्यते ।