पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
[खण्डः २३, २४
वेदान्तसारः

विशिष्टत्वपरित्यागेनविरुद्धचैतन्येन सह लक्ष्यलक्षणभावः । इयमेव भागलक्षणेत्युच्यते ॥ २३ ॥

 अस्मिन्वाक्ये नीलमुत्पलमिति वाक्यवद्वाक्यार्थो न सङ्ग च्छते । तत्र तु नीलपदार्थनीलगुणस्योत्पलपदार्थोत्पलद्रव्यस्य च शौक्लयपटादिभेदव्यावर्तकतयान्योन्यविशेषणविशेष्यभाव संसर्गस्यान्यतरविशिष्टस्यान्यतरस्य तदैक्यस्य वा वाक्यार्थत्वा ङ्गीकारे प्रमाणान्तरविरोधाभावात्तद्वाक्यार्थः सङ्गच्छते । अत्र तु तदर्थपरोक्षत्वादिविशिष्टचैतन्यस्य त्वमर्थापरोक्षत्वादिविशि ष्टचैतन्यस्य चान्योन्यभेदव्यावर्तकतया विशेषणविशेष्यभावसं सर्गस्यान्यतरविशिष्टस्यान्यतरस्य तदैक्यस्य च वाक्यार्थत्वाङ्गी कारे प्रत्यक्षादिप्रमाणविरोधाद्वाक्यार्थो न सङ्गच्छते । तदुक्तम्


संज्ञाभेदो न वस्तुभेद इत्याह इयमेवेति । तत्त्वमस्यादिवाक्यानां विरुद्धां- शपरित्यागेनाविरुद्धचैतन्यमात्रबोधकत्वमेव भागलक्षणेत्युच्यत इत्यर्थः ॥२३॥

 ननु यथा नीलोत्पलमिति वाक्ये नीलत्वविशिष्टनीलगुणस्योपलत्वविशि• ष्टोत्पलद्रव्यस्य च स्वव्यतिरिक्तशुक्लादिगुणान्तरपटादिद्रव्यान्तरव्यावर्तकत्वेन विशेषणविशेष्यभावनिरूपिततद्भिन्नसंसर्गस्य नीलगुणवैशिष्ट्यस्य वाक्यार्थत्वं तथेहापि तत्त्वमस्यादिवाक्ये तत्पदार्थस्य परोक्षत्वादिविशिष्टेश्वरचैतन्यस्य त्वम्पदार्थस्यापरोक्षत्वादिविशिष्टजीवचैतन्यस्य चान्योन्यभेदव्यावर्तकतया वि शेषणविशेष्यभूतसर्वज्ञत्वकिञ्चिज्ज्ञत्वोभयनिरूपितसंसर्गो वा सर्वज्ञत्वादिवि शिष्टस्य किञ्चिज्ज्ञत्वादिविशिष्टेन सहैक्यं वाक्यार्थो भवत्वित्याशङ्कय दृष्टा न्तदार्ष्टान्तिकयोर्वैषम्यान्नैवमित्याह अस्मिन्नित्यादिना । अस्मिस्तत्त्वमसीतिर् वाक्ये नीलोत्पलमित्यादिवाक्यवसंसर्गो वा विशिष्टो वा वाक्यार्थो न सङ्गच्छत इत्यर्थः । नीलोत्पलमितिवाक्यस्य संसर्गवैशिट्यार्थप्रतिपादकत्व कल्पने विरोधभावं दर्शयति तत्र त्विति । नीलोत्पलपदार्थयोर्गुणगुणिनो A 1. DGH. वा. 2. Politichodds', vii. 75. In the text of BK. All the commentaries give the entire text in detached portions; and, in them all, bhis follows the preceding portion of text without any other words intervening. See Notes. १. See Notes. २. OK. insert वा.