सामग्री पर जाएँ

पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
खण्डः २३]
३३
सुबोधिनीसहितः

दस्यापरोक्षत्वादिविशिष्टचैतन्यवाचकस्वम्पदस्य चैकस्मिंश्चैतन्ये तात्पर्यसम्बन्धः । विशेषणविशेष्यभावसम्बन्धस्तु यथा तत्रैव वाक्ये सशब्दार्थतत्कालविशिष्टदेवदत्तस्यायंशब्दार्थैतत्कालवि शिष्टदेवदत्तस्य चान्योन्यभेदव्यावर्तकतया विशेषणविशेष्य भावः । तथात्रापि वाक्ये तत्पदर्थपरोक्षत्वादिविशिष्टचैतन्यस्य त्वम्पदार्थापरोक्षत्वादिविशिष्टचैतन्यस्य चान्योन्यभेदव्यावर्त कतया विशेषणविशेष्यभावः । लक्ष्यलक्षणसम्बन्धस्तु यथा तत्रैव वाक्ये सशब्दायंशब्दयोस्तदर्थयोर्वा विरुद्धतत्कालैतत्कालवि शिष्टत्वपरित्यागेनाविरुद्धदेवदत्तेन सह लक्ष्यलक्षणभावः। तथा त्रापि वाक्ये तत्त्वम्पदयोस्तदर्थयोर्वा विरुद्धपरोक्षत्वापरोक्षत्वादि


किञ्चिज्ज्ञत्वादिविशिष्टं चैतन्यं तत्तत्पदवाच्यात्सर्वज्ञत्वादिविशिष्टचैतन्यान्न भिद्यत इति यदा प्रतीयते तदा तच्छब्दार्थस्य त्वम्पदार्थनिष्ठभेदव्यावर्तक- तया विशेषणस्वं त्वम्पदार्थस्य व्यावर्यत्वाद्विशेष्यत्वम् । तथा च तदपदवाच्यं यत्सर्वज्ञत्वादिविशिष्टचैतन्यं तत्त्वम्पदवाच्यात्किञ्चिज्ज्ञत्वादिविशिष्टचैतन्यान्न भिद्यत इति यदा प्रतीयते तदा त्वम्पदार्थस्य तत्पदार्थनिष्ठभेदव्यावर्तकत्वेन विशेषणत्वं तत्पदार्थस्य व्यावर्त्यत्वाद्विशेष्यत्वम् । । तथा च त्वं तदसि तत्त्व मसीति तत्त्वम्पदार्थयोः परस्परं भेदव्यावर्तकत्वेन परस्परं विशेषणविशेष्यभाव इत्यर्थः । क्रमप्राप्तं लक्ष्यलक्षणभावसम्बन्धस्वरूपं निरूपयितुमाह लक्ष्येति । असाधारणधर्मप्रतिपादकं वाक्यं लक्षणवाक्यं तत्प्रतिपाद्यमवशिष्टं वस्तु लक्ष्यम् । तथा च सोऽयं देवदत्त इत्यस्मिन्नेव वाक्ये सोऽयंशब्दयोस्तदर्थयोर्वा विरुद्धत त्कालतदृेशविशिष्टैतत्कालैतद्देशविशिष्टत्वपरिहारेणाविरुद्ध देवदत्तत्वविशिष्टदेव दत्तपिण्डेन सह देवदत्त विशिष्टदेवदत्तवाचकशब्दस्य लक्ष्यलक्षणभाव सम्बन्ध इत्यर्थः। उक्तमर्थं दार्ष्टान्तिके योजयति तथात्रापीति । इहापि तत्त्वम्पदयो स्तदर्थयोर्वा विरुद्धपरोक्षत्वापरोक्षत्वादिविशिष्टत्वपरित्यागेन तत्त्वम्पदाभ्यां लक्ष्याविरुद्धचैतन्येन सह तत्त्वम्पदयोर्लक्ष्यलक्षणभावः सम्बन्धः । अत्र तत्त्व म्पदयोस्तदर्थयोश्च त्यक्तविरुद्धांशयोर्लक्षणत्वमखण्डचैतन्यस्य लक्ष्यत्वमिति भावः । ननु तत्वमस्यादिवाक्यानां लक्ष्यलक्षणभावसम्बन्धपुरस्कारेण चैतन्य- बोधकत्वमुक्तमन्यत्र तु शास्त्रे तेषां वाक्यानां भागलक्षणयैव चैतन्यबोधकत्वं प्रतिपाद्यते । तत्वमस्यादिवाक्येषु लक्षण भागलक्षणेत्यादि विरोधमाशङ्कय

१. CK omit visargo.