सहजबुद्धिवैषम्येन विभिन्नतया प्रतिपादितः । तथा तथैष जगद्बोधो व्यावहारिको भवतु नाम । नास्माकं तैस्सह विवाद इति भावः॥१००॥
साङ्ख्यादिभिरङ्गीकृतं द्वैतमपि प्रामाणिकमित्यभ्युपगम्यते त्वया।एवं परमतमप्रतिषिद्धमनुमतं भवतीति तत्कृताद्वैतावज्ञाया अपि प्रामाण्यापत्तिरित्याशंक्याह, अवज्ञातमिति ।
अवज्ञातं सदद्वैतं निश्शंकैरन्यवादिभिः । |
निश्शंकैरतिसाहसेन श्रुतिप्रामाण्यमवजानद्भिरन्यवादिभिरद्वैतं विगळिता शेषभेदं सदवज्ञातं तिरस्कृतमिति चेदुच्यते । तद्द्वैतम् तैर्यत्प्रतिपादितं जगत्सत्यत्वं तदवजानतां मिथ्यात्वेनानादरणं कुर्वतामस्माकं का क्षतिः। विद्यन्तां बहवः श्रुत्यर्थविमुखाः परस्परविरुद्धार्थाभिनिविष्टा विविधदर्शनप्रवर्तकाः । तैर्नास्माकं विवाद इति भावः ॥ १०१ ॥
द्वैतावज्ञाफलमद्वैतम्
द्वैतावज्ञाप्रयोंजनमाह, द्वैतेति ।
द्वैतावज्ञा सुस्थिता चेदद्वैते धीः स्थिरा भवेत् । |
द्वैतावज्ञा द्वैतस्य जगज्जीवेश्वरादिवैचित्र्यविशिष्टस्य जगतो मिथ्यात्वेन तिरस्कारः सुस्थिता चेत् सुप्रतिष्ठिता चेदद्वैते ब्रह्मणि धीः बुद्धिः स्थिरा भवेत् । तस्याः बुद्धेः स्थैर्यं सत्येषोऽर्द्वैते, स्थिरीभूतधी: पुमान् जीवन्मुक्त इतीर्यते ॥१०२॥
जीवन्मुक्तेः फलं गीतावाक्येनोदाहरति, एषेति ।
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । |