पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
७१
कल्याणपीयूषव्याख्यासमेता

 क्षत्यभावं दर्शयति, भूतेति ।

भूतभौतिकमायानामसत्वेऽत्यन्तवासिते ।
सद्वस्त्वद्वैतमित्येषा धीर्विपर्येति न क्वचित् ॥ ९८॥

 भूतभौतिकमायानां भूतानि वियदादीनि भौतिकानि भूतकार्याणि ब्रह्माण्डादीनि माया च । तासामसत्त्वे मिथ्यात्वेऽत्यन्तवासिते बुद्धौ निरूढे सति सद्वस्त्वद्वैतमद्वितीयमित्येषा धीः कचिदपि न विपर्येति विकारं नाप्नोति । स्थिरीभवतीति भावः ॥ ९८ ॥

 ननु भौतिकानामसत्वे सर्वव्यवंहालोप इत्यत आह, सदिति ।

सदद्वैतात् पृथग्भूते द्वैते भूम्यादिरूपिणि ।
तत्तदर्थक्रिया लोके यथा दृष्टा तथैव सा ॥ ९९ ॥

 भूम्यादिरूपिणि भूम्यादिचतुर्दशलोकप्राणिदेहादिरूपेण प्रतीयमाने द्वैतें सदद्वैतात् निरस्तसमस्तद्वैतभावात् सतः पृथग्भूते विभक्ते सति मिथ्यात्वेन निश्चितेऽपि तत्तदर्थक्रिया ते च तेऽर्थाश्च तेषां क्रियाप्रयोजनं लोके यथा दृष्टा सा तथैव । व्यवहारिकप्रामाण्यस्याङ्गीकारात्सतः सकाशाद्द्वैतस्य पृथक्करणात्पूर्वं व्यवहारो लोके यथा दृष्टस्तथैव तदनन्तरमपि द्रष्टव्यः । व्यवहारलोपप्रसंगोनास्तीत्यर्थः ॥ ९९ ॥

 बुद्धिवैषम्यकृतहेतुवादप्रधानैः साङ्ख्यादिभिर्व्यवहारसत्यत्वमभ्युपगच्छतां नास्माकं विवाद इत्याह साङ्ख्येति ।

साङ्ख्यकाणादबौद्धाद्यैर्जगद्भेदो यथा यथा
उत्प्रेक्ष्यतेऽनेकयुक्त्या भवत्वेष तथा तथा ॥ १०० ॥

 साङ्ख्यकाणादबौद्धाद्यैर्विविधदर्शनकारिभिः । आदिशब्देन चार्वाकरौव- वैष्णवादयः सूचिताः । तैर्यथा यथा जगद्भेदो जगद्वैचित्र्यमनेकयुक्या उत्प्रेक्ष्यते