पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७०
[ब्रह्मानंदे विषयानंद
पञ्चदशी

त्यमिति । जलसूर्यकादिवदित्युपमोपादीयत इति ॥ ६ ॥

 एकस्यैव परमात्मन उपाधिकृतनानात्वे ब्रह्मबिंदु (१२) श्रुतिं पठति, एक इति ।

एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।।
एकधा बहुधा चैव दृश्यते जलचंद्रवत् ॥ ७ ॥

 व्यवस्थितः स्थितिमवाप्तः सन् जलचंद्रवत् जले प्रतिफलितचंद्रवत् एकधा बहुधा चैव दृश्यते । अन्यत् स्पष्टं ॥ ७ ॥

 श्रुयुक्तदृष्टान्ताशयं विवृणोति जल इति ।

जले प्रविष्टश्चंद्रोऽयमस्पष्टः कलुषे जले।
विस्पष्टो निर्मले तद्वद्द्वेधा ब्रह्मापि वृत्तिषु ॥८॥

 तद्वदिति । तद्वद्द्वैधा द्विविधं ब्रह्मापि वृत्तिषु सात्विकादिषु भवति स्पष्ठमन्यत् ॥ ८ ॥

 द्वैविध्यं विवृणोति, घोरेति ।

घोरमूढासु मालिन्यात्सुखांशश्च तिरोहितः
ईषनैर्मल्यतस्तत्र चिदंशप्रतिबिंबनम् ॥ ९॥

 स्पष्टोऽर्थः ॥९॥

 दृष्टान्तान्तरमाह, यद्वेति ।

यद्वापि निर्मले नीरे बहेरौष्ण्यस्य संक्रमः।
न प्रकाशस्य तद्वत् स्याच्चिन्मात्रोद्धृतिरेव च ॥ १० ॥

 स्पष्टः पूर्वार्धः । तद्वत् राजसतामसवृतिषु चिन्मात्रोद्धृतिरेव चित्स्फुरणमेव स्यान्न तु सुखांशस्य ॥ १०॥

 शान्तवृत्तिषु चिदानन्दयोर्भाने दृष्टान्तांतरमाह, काष्ठ इति ।

काष्ठे त्वौष्ण्यप्रकाशौ द्वावुद्भवं गच्छतो यथा ।