त्यमिति । जलसूर्यकादिवदित्युपमोपादीयत इति ॥ ६ ॥
एकस्यैव परमात्मन उपाधिकृतनानात्वे ब्रह्मबिंदु (१२) श्रुतिं पठति, एक इति ।
एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।। |
व्यवस्थितः स्थितिमवाप्तः सन् जलचंद्रवत् जले प्रतिफलितचंद्रवत् एकधा बहुधा चैव दृश्यते । अन्यत् स्पष्टं ॥ ७ ॥
श्रुयुक्तदृष्टान्ताशयं विवृणोति जल इति ।
जले प्रविष्टश्चंद्रोऽयमस्पष्टः कलुषे जले। |
तद्वदिति । तद्वद्द्वैधा द्विविधं ब्रह्मापि वृत्तिषु सात्विकादिषु भवति स्पष्ठमन्यत् ॥ ८ ॥
द्वैविध्यं विवृणोति, घोरेति ।
घोरमूढासु मालिन्यात्सुखांशश्च तिरोहितः |
स्पष्टोऽर्थः ॥९॥
दृष्टान्तान्तरमाह, यद्वेति ।
यद्वापि निर्मले नीरे बहेरौष्ण्यस्य संक्रमः। |
स्पष्टः पूर्वार्धः । तद्वत् राजसतामसवृतिषु चिन्मात्रोद्धृतिरेव चित्स्फुरणमेव स्यान्न तु सुखांशस्य ॥ १०॥
शान्तवृत्तिषु चिदानन्दयोर्भाने दृष्टान्तांतरमाह, काष्ठ इति ।
काष्ठे त्वौष्ण्यप्रकाशौ द्वावुद्भवं गच्छतो यथा । |