नामरूपे द्वे निस्तत्वे निरस्ततत्वे कल्पिते । कुतः? ते जन्मनाशयुते । जायेते विनश्येते । अतो वर्तमानेऽप्यविद्यमाने । तर्हि ते कुत्र कल्पिते इत्याकां क्षायामाहबुध्येति । समुद्रे बुद्बु,दादिवत् यथा समुद्रजले फेनतरंगतुषारादिकं कल्पितं बुद्ध्या वीक्ष्यते तथैव ते नामरूपे ब्रह्मणि कल्पित इति बुद्ध्या वीक्षस्व जनीहि ॥ ७९ ॥
किं तेन ब्रह्मवीक्षणेनेत्यत आह, सच्चिदिति ।
सच्चिदानन्दरूपेऽस्मिन् पूर्णं ब्रह्मणि वीक्षिते । |
स्पष्टोऽर्थः । अत्र २७७ श्लोकः समवलोकनीयः ॥ ८०॥
नामरूपयोरवज्ञाफलकथनम् ।
अवज्ञाफलमाह यावदिति ।
यावद्यावदवज्ञा स्यात्तावत्तावत्तदीक्षणम् । |
स्पष्टोऽर्थः ॥ ८१॥
एवमभ्यासस्य फलमाह, तदिति ।
तदभ्यासेन विद्यायां सुस्थितायामयं पुमान् । |
स्पष्टोऽर्थः ॥ ८२॥
ब्रह्माभ्यासस्वरूपविचारः ।
इदानीं ब्रह्माभ्यासस्वरूपमाह, तदिति ।
तच्चिन्तन तत्कथनमन्योन्य तत्प्रबोधनम् । |
अयं श्लोकः ७-१०६ श्लोके व्याख्यातः ॥ ८३ ॥