सराभाने तु सम्मते । दृष्टान्तभूते ते सम्मते । शून्यं भातीति वदता त्वयांगीकृते । एव अतस्तयोर्दष्टान्तत्वे विप्रतिपत्तिर्नास्तीति भावः ॥ ७४॥
आकाशे इव वाय्वादिष्वेवमेव सन्ताद्यनुगमोऽवगम्यतामित्याहवाय्विति ।
वाय्वादिदेहपर्यन्तं वस्तुष्वेवं विभाव्यताम् ॥ ७५॥ |
स्पष्टोऽर्थः ॥ ७५॥
तत्र वाय्वादीनां स्वीयान् धर्मानुदाहरति, गतीति ।
गतिस्पशौं वायुरूप वहनेदाहप्रकाशने । |
रूपं असाधारणं रूपं । स्पष्टमन्यत् ।। ७६, ७७ ॥
फलितमाह, अनेकधेति ।
अनेकधा विभिन्नेषु नामरूपेषु चैकधा । |
सुलभा पदयोजना, सच्चिदानन्दाः कारणधर्मा एकधा नियतं तिष्ठन्ति । चेतनाचेतनेषु सर्वेषु सचिदानन्द। अनुवर्तन्ते । तेषां नामरूपे तु व्यावर्तेते । यत्सर्ववस्तुष्वनुवर्तते तत्सत्यं । यद्यवर्तते तदसत्यं । अतः सच्चिदानन्दाः सत्य स्वरूपाः। नामरूपे असत्यस्वरूपे इति भावः ॥ ७८ ॥
नामरूपयोः काल्पनिकत्वकथनम् ।
असत्यभूतयोर्नामरूपयोः प्रतीयमानयोः किं रूपमित्यत आह, निस्तत्वे इति ।
निस्तत्वे नामरूपे हे जन्मनाशयुते च ते। |