पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२४
[ब्रह्मनंदे अद्वैतानंद
पञ्चदशी

फलपत्रलतापुष्पशाखाविटपमूलवान् ।
ननु ! बीजे यथा वृक्षस्तथेदं ब्रह्मणि स्थितम् ॥१८॥

 नन्वित्यामन्त्रणे। स्पष्टमन्यत् । पृथुलघुभेदेन शाखाविटपभेदः। विटं विस्तारं वाति पिबति वेति विटपः ॥१८॥

 देशकालानुसारतः शक्तयोऽभिव्यज्यन्ते न तु युगपदिति सोदाहरणमाह, क्वचिदिति ।

क्वचित्काश्चित्कदाचिच्च तस्मादुद्यन्ति शक्तयः ।
देशकालविचित्रत्वात् क्ष्मातलादिव शालयः ॥ १९ ॥

 स्पष्टोऽर्थः ॥ १९ ॥

 जगतः काल्पनिकत्वविवक्षया तत्कल्पकस्य मनसः स्वरूपं प्रदर्शयति, स इति ।

स आत्मा सर्वगो राम! नित्योदितमहावपुः ।
यन्मनाङ्मननीं शक्त्तिं धत्ते तन्मन उच्यते ॥ २० ॥

 हे राम ! नित्योदितमहावपुः नित्यमुदितं प्रकाशमानं महत् अपरिच्छिन्नं वपुः स्वरूपं यस्य सः सर्वगः सर्वव्यापी आत्मा यत्समये मनाक् ईक्षत् मननीं स्वपरावधोधनरूपां मायाशक्ति धत्ते तत्समये मन इत्युच्यते ॥२०॥

 जगत्कल्पनारीतिमुदाहरति, आदाविति ।

आदौ मनस्तदतु बंधविमोक्षदृष्टी
पश्चात्प्रपंचरचना भुवनाभिधाना ।
इत्यादिका स्थितिरियं हि गता प्रतिष्ठा-
माख्यायिका सुभग ! बालजनोदितेव ॥ २१ ॥

 हे सुभग ! आदौ मनः मनःशक्तिर्भवति । तदनु तदनन्तरं बंधविमोक्षदृष्टी बंधस्य विमोक्षस्य च दृष्टी कल्पने भवतः । पश्चात् भुवनाभिधाना भुवनं लोकमित्य